माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
यं भावं दर्शयेद्यस्य तं भावं स तु पश्यति ।
तं चावति स भूत्वासौ तद्ग्रहः समुपैति तम् ॥ २९ ॥
किं बहुना ? प्राणादीनामन्यतममुक्तमनुक्तं वा अन्यं यं भावं पदार्थं दर्शयेद्यस्याचार्योऽन्यो वा आप्तः इदमेव तत्त्वमिति, स तं भावमात्मभूतं पश्यत्ययमहमिति वा ममेति वा, तं च द्रष्टारं स भावोऽवति, यो दर्शितो भावः, असौ स भूत्वा रक्षति ; स्वेनात्मना सर्वतो निरुणद्धि । तस्मिन्ग्रहस्तद्ग्रहस्तदभिनिवेशः इदमेव तत्त्वमिति स तं ग्रहीतारमुपैति, तस्यात्मभावं निगच्छतीत्यर्थः ॥

लौकिकानां परीक्षकाणां च कतिपयकल्पनाभेदानुदाहृत्यानन्तत्वादशेषतस्तेषामुदाहर्तुमशक्यत्वं दृष्ट्वा संक्षेपमात्रमाचष्टे –

यं भावमिति ।

पादत्रयं विभजते –

किं बहुनेत्यादिना ।

तमेव भावं विशिनष्टि –

यो दर्शित इति ।

स कथं द्रष्टारं रक्षतीत्यपेक्षायामाह –

असाविति ।

साधकपुरुषतादात्म्यमापद्येत्यर्थः।

रक्षणप्रकारं प्रकटयति –

स्वेनेति ।

साक्षादसाधारणरूपत्वेन तत्रैव निष्ठामापाद्य ततोऽन्यत्र प्रवृत्तिमुपासकस्य निवारयतीत्यर्थः।

चतुर्थपादं व्याचष्टे –

तस्मिन्निति ॥२९॥