माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
एतैरेषोऽपृथग्भावैः पृथगेवेति लक्षितः ।
एवं यो वेद तत्त्वेन कल्पयेत्सोऽविशङ्कितः ॥ ३० ॥
एतैः प्राणादिभिः आत्मनोऽपृथग्भूतैरपृथग्भावैः एषः आत्मा रज्जुरिव सर्पादिविकल्पनारूपैः पृथगेवेति लक्षितः अभिलक्षितः निश्चितः मूढैरित्यर्थः । विवेकिनां तु रज्ज्वामिव कल्पिताः सर्पादयो नात्मव्यतिरेकेण प्राणादयः सन्तीत्यभिप्रायः ; ‘इदं सर्वं यदयमात्मा’ (बृ. उ. २ । ४ । ६) इति श्रुतेः । एवमात्मव्यतिरेकेणासत्त्वं रज्जुसर्पवदात्मनि कल्पितानामात्मानं च केवलं निर्विकल्पं यो वेद तत्त्वेन श्रुतितो युक्तितश्च, सः अविशङ्कितो वेदार्थं विभागतः कल्पयेत् कल्पयतीत्यर्थः — इदमेवंपरं वाक्यम् अदोऽन्यपरम् इति । न ह्यनध्यात्मविद्वेदान्ज्ञातुं शक्नोति तत्त्वतः, ‘न ह्यनध्यात्मवित्कश्चित्क्रियाफलमुपाश्नुते’ (मनु. ६ । ८२) इति हि मानवं वचनम् ॥

एतेनान्यत्र प्रवृत्तिनिरोधे हेतुरुक्तः। तर्हि प्राणादीनामात्मवदेव तात्त्विकत्वं प्राप्तमित्याशङ्क्य कल्पितानामधिष्ठानातिरेकेणावस्तुत्वान्नैवमित्याह –

एतैरिति ।

उक्तज्ञानस्तुत्यर्थमाह –

एवमिति ।

पूर्वार्धं व्याकरोति –

एतैरिति ।

कल्पितानामधिष्ठानातिरेकेण सत्तास्फुरणयोरभावात् तद्द्वारेणाऽऽत्मनि भेददर्शनमविवेकिनामस्तु तदन्येषां कथमुपलब्धिरित्याशङ्क्याऽऽह –

विवेकिनां त्विति ।

प्राणादीनामात्मातिरेकेणासत्त्वे प्रमाणमाह –

इदमिति ।

उत्तरार्धं योजयति –

एवमिति ।

तत्त्वेनाऽऽत्मवेदनोपायं सूचयति –

तत्त्वेनेति ।

स्वप्नदृश्यवज्जाग्रद्दृश्यानां मिथ्यात्वसाधको दृश्यत्वादिहेतुरत्र युक्तिरित्युच्यते। तथोक्तविज्ञानवान् वेदकिङ्करो न भवति, किं तु स यं वेदार्थं ब्रूते स एव वेदार्थो भवतीत्यर्थः।

विभागतो वेदार्थव्याख्यानमभिनयति –

इदमिति ।

ज्ञानकाण्डं साक्षादद्वैतवस्तुपरम्। कर्मकाण्डं तु साध्यसाधनसम्बन्धबोधनद्वारा परम्परया तस्मिन् पर्यवसितम्। ‘सर्वे वेदा यत्पदमामनन्ति’(क. उ. १ । २ । १५) इति श्रुतेरित्यर्थः।

आत्मविदो वेदार्थवित्तमुक्तं व्यनक्ति –

न हीति ।

तदेव हि वेदार्थतत्त्वं यत्प्रत्यगात्मस्वरूपम्, अतश्चाध्यात्मविदेव याथात्म्येन तत्त्वज्ञाने प्रभवतीत्यर्थः।

उक्तेऽर्थे स्मृतिमुदाहरति –

न हीति ।

क्रियाशब्देन प्रमाणमुच्यते। तत्फलं तत्त्वज्ञानम्, अग्निहोत्रादिक्रियायाश्च शुद्धिद्वारा तस्मिन् पर्यवसानादित्यर्थः॥३०॥