एतेनान्यत्र प्रवृत्तिनिरोधे हेतुरुक्तः। तर्हि प्राणादीनामात्मवदेव तात्त्विकत्वं प्राप्तमित्याशङ्क्य कल्पितानामधिष्ठानातिरेकेणावस्तुत्वान्नैवमित्याह –
एतैरिति ।
उक्तज्ञानस्तुत्यर्थमाह –
एवमिति ।
पूर्वार्धं व्याकरोति –
एतैरिति ।
कल्पितानामधिष्ठानातिरेकेण सत्तास्फुरणयोरभावात् तद्द्वारेणाऽऽत्मनि भेददर्शनमविवेकिनामस्तु तदन्येषां कथमुपलब्धिरित्याशङ्क्याऽऽह –
विवेकिनां त्विति ।
प्राणादीनामात्मातिरेकेणासत्त्वे प्रमाणमाह –
इदमिति ।
उत्तरार्धं योजयति –
एवमिति ।
तत्त्वेनाऽऽत्मवेदनोपायं सूचयति –
तत्त्वेनेति ।
स्वप्नदृश्यवज्जाग्रद्दृश्यानां मिथ्यात्वसाधको दृश्यत्वादिहेतुरत्र युक्तिरित्युच्यते। तथोक्तविज्ञानवान् वेदकिङ्करो न भवति, किं तु स यं वेदार्थं ब्रूते स एव वेदार्थो भवतीत्यर्थः।
विभागतो वेदार्थव्याख्यानमभिनयति –
इदमिति ।
ज्ञानकाण्डं साक्षादद्वैतवस्तुपरम्। कर्मकाण्डं तु साध्यसाधनसम्बन्धबोधनद्वारा परम्परया तस्मिन् पर्यवसितम्। ‘सर्वे वेदा यत्पदमामनन्ति’(क. उ. १ । २ । १५) इति श्रुतेरित्यर्थः।
आत्मविदो वेदार्थवित्तमुक्तं व्यनक्ति –
न हीति ।
तदेव हि वेदार्थतत्त्वं यत्प्रत्यगात्मस्वरूपम्, अतश्चाध्यात्मविदेव याथात्म्येन तत्त्वज्ञाने प्रभवतीत्यर्थः।
उक्तेऽर्थे स्मृतिमुदाहरति –
न हीति ।
क्रियाशब्देन प्रमाणमुच्यते। तत्फलं तत्त्वज्ञानम्, अग्निहोत्रादिक्रियायाश्च शुद्धिद्वारा तस्मिन् पर्यवसानादित्यर्थः॥३०॥