माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
स्वप्नमाये यथा दृष्टे गन्धर्वनगरं यथा ।
तथा विश्वमिदं दृष्टं वेदान्तेषु विचक्षणैः ॥ ३१ ॥
यदेतद्द्वैतस्यासत्त्वमुक्तं युक्तितः, तदेतद्वेदान्तप्रमाणावगतमित्याह — स्वप्नश्च माया च स्वप्नमाये असद्वस्त्वात्मिके सत्यौ सद्वस्त्वात्मिके इव लक्ष्येते अविवेकिभिः । यथा च प्रसारितपण्यापणगृहप्रासादस्त्रीपुञ्जनपदव्यवहाराकीर्णमिव गन्धर्वनगरं दृश्यमानमेव सत् अकस्मादभावतां गतं दृष्टम् , यथा च स्वप्नमाये दृष्टे असद्रूपे, तथा विश्वमिदं द्वैतं समस्तमसद्दृष्टम् । क्वेत्याह — वेदान्तेषु, ‘नेह नानास्ति किञ्चन’ (क. उ. २ । १ । ११) ‘इन्द्रो मायाभिः’ (बृ. उ. २ । ५ । १९) ‘आत्मैवेदमग्र आसीत्’ (बृ. उ. १ । ४ । १) ‘ब्रह्मैवेदमग्र आसीत्’ (बृ. उ. १ । ४ । १०) ‘द्वितीयाद्वै भयं भवति’ (बृ. उ. १ । ४ । २) ‘न तु तद्द्वितीयमस्ति’ (बृ. उ. ४ । ३ । २३) ‘यत्र त्वस्य सर्वमात्मैवाभूत्’ (बृ. उ. ४ । ५ । १५) इत्यादिषु विचक्षणैः निपुणतरवस्तुदर्शिभिः पण्डितैरित्यर्थः ; ‘तमः श्वभ्रनिभं दृष्टं वर्षबुद्बुदसंनिभम् । नाशप्रायं सुखाद्धीनं नाशोत्तरमभावगम्’ (मो. ध. ३०१ । ६०) इति व्यासस्मृतेः ॥

याभिर्युक्तिभिरस्मिन् प्रकरणे द्वैतस्य मिथ्यात्वं कथ्यते तासां प्रमाणानुग्रहकत्वादनाभासत्वमवसेयमित्याह –

स्वप्नेति ।

श्लोकस्य तात्पर्यार्थमाह –

यदेतद् द्वैतस्येति ।

असत्त्वे सत्त्ववत् प्रतिभानं कथमित्याशङ्क्य श्लोकाक्षराणि व्याचष्टे –

स्वप्नश्चेति ।

प्रसारितानि तत्र तत्र प्रकटतां प्रापितानि पण्यानि क्रयविक्रयद्रव्याणि येषामापणेषु हट्टेषु ते प्रसारितपण्यापणास्ते च गृहाश्च प्रासादाश्च स्त्रीपुञ्जनपदाश्चैतेषां व्यवहारास्तैराकीर्णमिति योजना।

दृष्टान्तत्रयमनूद्य दार्ष्टान्तिकमाह –

यथा चेति ।

गन्धर्वनगराकारः चकारार्थः। ‘नेह नानाऽस्ति किञ्जन’(बृ. उ. ४ । ४ । १९) इत्यादयो वेदान्ताः।

द्वैतस्य वस्तुतोऽसत्त्वे स्मृतिमपि दर्शयति –

तम इति ।

तमसि मन्दान्धकारे रज्ज्वामधिष्ठाने भूच्छिद्रमिति यद् भ्रान्त्या भाति तन्निभं तत्तुल्यं विवेकिभिर्विश्वं दृष्टं, तच्चातीव चञ्चलमालक्षितं नाशप्रायं वर्तमानकालेऽपि तद्योग्यतासत्त्वात्। न च द्वैतं कदाचिदपि सुखकरमुपलभ्यते, दुःखाक्रान्तं तु दृश्यते। तच्च नाशग्रस्तम्। नाशादूर्ध्वमसत्त्वमेवोपगच्छति न तर्हि तस्य परमार्थत्वं प्रमाणाभावादित्यर्थः॥३१॥