माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः ।
न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥ ३२ ॥
प्रकरणार्थोपसंहारार्थोऽयं श्लोकः — यदा वितथं द्वैतम् आत्मैवैकः परमार्थतः सन् , तदा इदं निष्पन्नं भवति — सर्वोऽयं लौकिको वैदिकश्च व्यवहारोऽविद्याविषय एवेति । तदा न निरोधः, निरोधनं निरोधः प्रलयः, उत्पत्तिः जननम् , बद्धः संसारी जीवः, साधकः साधनवान्मोक्षस्य, मुमुक्षुः मोचनार्थी, मुक्तः विमुक्तबन्धः । उत्पत्तिप्रलययोरभावाद्बद्धादयो न सन्तीत्येषा परमार्थता । कथमुत्पत्तिप्रलययोरभाव इति, उच्यते — द्वैतस्यासत्त्वात् । ‘यत्र हि द्वैतमिव भवति’ (बृ. उ. २ । ४ । १४) ‘य इह नानेव पश्यति’ (क. उ. २ । १ । १०) ‘आत्मैवेदं सर्वम्’ (छा. उ. ७ । २५ । २) ‘ब्रह्मैवेदं सर्वम्’ ‘एकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) ‘इदं सर्वं यदयमात्मा’ (बृ. उ. २ । ४ । ६) इत्यादिनानाश्रुतिभ्यो द्वैतस्यासत्त्वं सिद्धम् । सतो ह्युत्पत्तिः प्रलयो वा स्यात् , नासतः शशविषाणादेः । नाप्यद्वैतमुत्पद्यते प्रलीयते वा । अद्वैतं च, उत्पत्तिप्रलयवच्चेति विप्रतिषिद्धम् । यस्तु पुनर्द्वैतसंव्यवहारः, स रज्जुसर्पवदात्मनि प्राणादिलक्षणः कल्पित इत्युक्तम् ; न हि मनोविकल्पनाया रज्जुसर्पादिलक्षणाया रज्ज्वां प्रलय उत्पत्तिर्वा ; न च मनसि रज्जुसर्पस्योत्पत्तिः प्रलयो वा, न चोभयतो वा । तथा मानसत्वाविशेषाद्द्वैतस्य । न हि नियते मनसि सुषुप्ते वा द्वैतं गृह्यते ; अतो मनोविकल्पनामात्रं द्वैतमिति सिद्धम् । तस्मात्सूक्तम् — द्वैतस्यासत्त्वान्निरोधाद्यभावः परमार्थतेति । यद्येवं द्वैताभावे शास्त्रव्यापारः, नाद्वैते, विरोधात् ; तथा च सत्यद्वैतस्य वस्तुत्वे प्रमाणाभावाच्छून्यवादप्रसङ्गः, द्वैतस्य चाभावात् ; न, रज्जुवत्सर्पादिकल्पनाया निरास्पदत्वेऽनुपपत्तिरिति प्रत्युक्तमेतत्कथमुज्जीवयसीति, आह — रज्जुरपि सर्पविकल्पस्यास्पदभूता कल्पितैवेति दृष्टान्तानुपपत्तिः ; न, विकल्पनाक्षये अविकल्पितस्याविकल्पितत्वादेव सत्त्वोपपत्तेः ; रज्जुसर्पवदसत्त्वमिति चेत् , न एकान्तेनाविकल्पितत्वात् अविकल्पितरज्ज्वंशवत्प्राक्सर्पाभावविज्ञानात् , विकल्पयितुश्च प्राग्विकल्पनोत्पत्तेः सिद्धत्वाभ्युपगमादेवासत्त्वानुपपत्तिः । कथं पुनः स्वरूपे व्यापाराभावे शास्त्रस्य द्वैतविज्ञाननिवर्तकत्वम् ? नैष दोषः, रज्ज्वां सर्पादिवदात्मनि द्वैतस्याविद्याध्यस्तत्वात् कथं सुख्यहं दुःखी मूढो जातो मृतो जीर्णो देहवान् पश्यामि व्यक्ताव्यक्तः कर्ता फली संयुक्तो वियुक्तः क्षीणो वृद्धोऽहं ममैते इत्येवमादयः सर्वे आत्मन्यध्यारोप्यन्ते । आत्मा एतेष्वनुगतः, सर्वत्राव्यभिचारात् , यथा सर्पधारादिभेदेषु रज्जुः । यदा चैवं विशेष्यस्वरूपप्रत्ययस्य सिद्धत्वान्न कर्तव्यत्वं शास्त्रेण । अकृतकर्तृ च शास्त्रं कृतानुकारित्वे अप्रमाणम् । यतः अविद्याध्यारोपितसुखित्वादिविशेषप्रतिबन्धादेवात्मनः स्वरूपेणानवस्थानम् , स्वरूपावस्थानं च श्रेयः इति सुखित्वादिनिवर्तकं शास्त्रमात्मन्यसुखित्वादिप्रत्ययकरणेन नेति नेत्यस्थूलादिवाक्यैः ; आत्मस्वरूपवदसुखित्वादिरपि सुखित्वादिभेदेषु नानुवृत्तोऽस्ति धर्मः । यद्यनुवृत्तः स्यात् , नाध्यारोप्येत सुखित्वादिलक्षणो विशेषः, यथोष्णत्वगुणविशेषवत्यग्नौ शीतता ; तस्मान्निर्विशेष एवात्मनि सुखित्वादयो विशेषाः कल्पिताः । यत्त्वसुखित्वादिशास्त्रमात्मनः, तत्सुखित्वादिविशेषनिवृत्त्यर्थमेवेति सिद्धम् । ‘सिद्धं तु निवर्तकत्वात्’ इत्यागमविदां सूत्रम् ॥

प्रमाणयुक्तिभ्यां द्वैतमिथ्यात्वप्रसाधनेनाद्वैतमेव पारमार्थिकमिति स्थिते निर्धारितमर्थं संगृह्णाति –

नेत्यादिता ।

श्लोकस्य तात्पर्यार्थमाह –

प्रकरणेति ।

कोऽसौ प्रकरणार्थस्तस्य वा संग्रहे किं सिध्यति, तदाह –

यदेति ।

व्यवहारमात्रस्याविद्याविषयत्वेऽपि किं स्यादिति चेत् तदाह –

तदेति ।

चतुर्थपादार्थमाह –

उत्पत्तीति ।

उक्तमेवार्थं प्रश्नप्रतिवचनाभ्यां प्रपञ्चयति –

कथमित्यादिना ।

द्वैतासत्त्वं श्रुत्यवष्टम्भेन स्पष्टयति –

यत्र हीति ।

द्वैतस्यासत्त्वे कथमुत्पत्तिप्रलयौ न स्यातामित्याशङ्क्य किं द्वैतस्य तौ किं वाऽद्वैतस्येत्याद्यं विकल्पं दूषयति –

सतो हीति ।

द्वितीयं प्रत्याह –

नापीति ।

व्यावहारिकद्वैताङ्गीकारात् तस्यैवोत्पत्तिप्रलयावित्याशङ्क्याऽऽह –

यस्त्विति ।

विमतस्तत्त्वतो नोत्पत्तिप्रलयवान् कल्पितत्वाद्रज्जुसर्पविदित्यत्र दृष्टान्तासिद्धिमाशङ्क्य रज्जुसर्पस्य रज्ज्वामुत्पत्तिप्रलयौ मनसि वा द्वयोर्वेति विकल्प्य प्रथमं प्रत्याह –

न हीति ।

रज्जुं पश्यतां सर्वेषामुपलब्धिप्रसङ्गादित्यर्थः।

द्वितीयं दूषयति –

न चेति ।

बहिरुपलब्धिविरोधादित्यर्थः।

तृतीयं निरस्यति –

न चेति ।

उभयतो मनोरज्जुलक्षणे न रज्जुसर्पस्योत्पत्तिप्रलयौ युक्तौ द्वयाधारत्वानुपलम्भादित्यर्थः।

रज्जुसर्पवद् द्वैतस्य मानसत्वाविशेषान्न तत्त्वतो जन्मविनाशौ दर्शयितुं शक्त्याविति दार्ष्टान्तिकमाह –

तथेति ।

द्वैतस्य न कुतश्चित् तात्त्विकौ जन्मविनाशाविति शेषः।

मानसत्वासिद्धिमाशङ्क्याऽऽह –

न हीति ।

अन्वयव्यतिरेकाभ्यां द्वैतं मनोविकल्पनामात्रमिति निगमयति –

अत इति ।

न च मनो द्वैतस्य दर्शनमात्रे निमित्तमिति युक्तम्।

भ्रमसिद्धस्याज्ञातसत्तायां प्रमाणाभावादित्यभिप्रेत्य प्रकृतमुपसंहरति –

तस्मादिति ।

निरोधाद्यभावस्य परमार्थत्वे तत्रैव शास्त्रव्यापारादद्वैते तदव्यापारादभावबोधने व्यापृतस्य भावबोधने व्यापारविरोधादद्वैतमप्रामाणिकं प्राप्तमिति शङ्कते –

यद्येवमिति ।

अद्वैतस्य प्रामाणिकत्वाभावे किं स्यादित्याशङ्क्याऽऽह –

तथा चेति ।

अद्वैतस्याप्रामाणिकत्वेऽपि कुतः शून्यवादो द्वैतस्य सत्त्वादित्याशङ्क्याऽऽह –

द्वैतस्येति ।

नाप्रामाणिकशून्यवादो युक्तः, यथा रज्ज्वामारोपितसर्पादे रज्जुरधिष्ठानम्; न हि निरधिष्ठानो भ्रमोऽस्ति; तथा द्वैत कल्पनाया निरधिष्ठानत्वायोगात्तदधिष्ठानत्वेनाद्वैतमास्थेयमित्योङ्कारप्रकरणे परिहृतमेतच्चोद्यम् कथमुद्भावयसीति सिद्धान्तवाद्याह –

नेत्यादिना ।

तत्र शून्यवादी स्वमतानुसारेण दृष्टान्तासम्प्रतिपत्त्या चोदयति –

आहेति ।

स्वमतसम्मतस्यैव दृष्टान्ततेत्यनियमात् प्रसिद्धिमात्रेण परप्रतिबोधनसम्भवाद् भ्रमबाधे परिशिष्यमाणस्यावधेः सत्यताया रज्ज्वादौ दृष्टत्वाद् द्वैतभ्रमबाधसाक्षितया स्फुरतश्चैतन्यस्याकल्पितत्वादेव सत्त्वान्न शून्यताप्रसक्तिरित्युत्तरमाह –

नेत्यादिना ।

अद्वैतमसदप्रामाणिकत्वाद्रज्जुसर्पवदिति तदकल्पितत्वासिद्धिं शङ्कते –

रज्ज्विति ।

रज्जुसर्पस्यासत्त्वे भ्रान्तिविषयत्वं प्रयोजकमात्मनस्तु भ्रमसाक्षित्वान्नियमेन भ्रमविषयत्वान्नासत्त्वमित्युत्तरमाह –

नैकान्तेनेति ।

अप्रामाणिकत्वहेतोरनैकान्तिकत्वं दोषान्तरमाह –

अविकल्पितेति ।

नायं सर्पो रज्जुरेवेति सर्पाभावज्ञानपूर्वकपुरोवर्तिरज्जुत्वनिश्चयात्प्रागवस्थायां प्रामाणिकत्वाभावेऽपि सन्नेवाज्ञातो रज्ज्वंशोऽभ्युपगम्यते। तथा सदैव प्रामाणिकत्वाभावेऽपि सन्नेवाऽऽत्मा भविष्यतीत्यर्थः।

आत्मनोऽसत्त्वाभावे हेत्वन्तरमाह –

विकल्पयितुश्चेति ।

आत्मनो द्वैतभ्रमाधिष्ठानत्वेन सम्भावितत्वाद् बाधसाक्षित्वेन परिशिष्टत्वात् पूर्वं भ्रमोत्पत्तेः स्वतः सिद्धत्वाच्च प्रमाणाविषयत्वेऽपि नास्ति शून्यतेत्युक्तम्।

इदानीं प्रमिते धर्मिणि प्रतिषेधदर्शनादात्मनोऽप्रमितत्वे तत्र द्वैताभावप्रमापकं शास्त्रमयुक्तमिति शङ्कते –

कथमिति ।

प्रतिपन्ने धर्मिणि प्रतिषेधात् प्रमिते प्रतिषेधस्य विशेषणवैफल्यादेवानभ्युपगमादात्मनश्च सर्वकल्पनास्वधिष्ठानाकारेण स्फुरणाङ्गीकरणात् तस्मिन् प्रतिपन्ने द्वैतप्रतिषेधः सम्भवतीति परिहरति –

नैष दोष इति ।

भ्रमाविषयस्याऽऽत्मनोऽध्यासानुगततया स्फुरणमघटमानमित्याक्षिपति –

कथमिति ।

स्वप्रकाशत्वेन स्वतो निर्विकल्पकस्फुरणेऽपि सविकल्पकव्यवहारे समारोपितसंसृष्टाकारेण भ्रमविषयत्वमविरूद्धमित्याह –

सुख्यहमित्यादिना ।

उक्तन्यायेनाऽऽत्मप्रतीतेः सिद्धत्वात् प्रतिपन्ने तस्मिन् द्वैतप्रतिषेधस्य सुकरतेति फलितमाह –

यदा चेति।

न केवलमारोपितविशेषणैर्विशेष्यस्याऽऽत्मनः स्वरूपस्फुरणस्य सिद्धत्वादेव न शास्त्रेण कर्तव्यत्वमनुवादत्वेनाप्रामाण्यप्रसङ्गाच्चैवमित्याह –

अकृतेति ।

स्फुरत्यात्मनि द्वैतनिषेधकत्वेऽपि शास्त्रस्य फलाभावादप्रामाण्यं तदवस्थमित्याशङ्क्याऽऽह –

अविद्येति ।

प्रतिषेधशास्त्रादपनीते प्रतिबन्धे स्वरूपावस्थानं फलतीत्यर्थः।

निःशेषदुःखनिवृत्तिर्निरतिशयानन्दावाप्तिश्च परं श्रेयो, न स्वरूपावस्थानमित्याशङ्क्याऽऽह –

स्वरूपेति ।

इति प्रसिद्धं मोक्षशास्त्रेष्विति शेषः।

द्वैतनिवर्तकत्वे शास्त्रस्य कारकत्वं स्यादित्याशङ्क्याऽऽह –

सुखित्वादीति ।

असुखित्वादेः स्वाभाविकत्वादात्मनि स्फुरत्यस्फुरणमनुपपन्नमित्याशङ्क्य भ्रमविषयशिक्तीदमंशादेश्च स्वाभाविकोऽपि रजतादिभेदो दोषमाहत्म्याद् यथा न प्रतिभाति तथाऽचिन्त्यशक्त्यविद्याप्रभावादात्मनि स्फुरत्यपि सुखित्वाद्यध्यासविरोध्यसुखित्वादि रूपेणास्फुरणमविरुद्धमित्याह –

आत्मेति ।

विपक्षे भ्रमानुपपत्तिरित्याह –

यदीति ।

उक्तमर्थं संक्षिप्य निगमयति –

तस्मादिति ।

असुखित्वादेरकल्पितत्वमसिद्धमाशङ्क्य निरस्यति –

यत्त्विति ।

अस्थूलं शोकान्तरमित्यादिवाक्यं शास्त्रशब्देन गृह्यते।

उक्तेऽर्थे – द्रविडाचार्य सम्मतिमाह –

सिद्धं त्विति ।

ब्रह्मणि पदानां व्युत्पत्त्यभावेऽपि सिद्धमेव शास्त्रप्रामाण्यमभावबोधनव्युत्पन्ननञ्पदसंसृष्टैः स्थूलादिव्युत्पन्नपदैः स्वाभाविकद्वैताभावबोधनेनाध्यस्तनिवर्तकत्वादिति सूत्रार्थः ॥३२॥