माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
भावैरसद्भिरेवायमद्वयेन च कल्पितः ।
भावा अप्यद्वयेनैव तस्मादद्वयता शिवा ॥ ३३ ॥
पूर्वश्लोकार्थस्य हेतुमाह — यथा रज्ज्वामसद्भिः सर्पधारादिभिः अद्वयेन च रज्जुद्रव्येण सता अयं सर्प इति धारेयं दण्डोऽयमिति वा रज्जुद्रव्यमेव कल्प्यते, एवं प्राणादिभिरनन्तैः असद्भिरेव अविद्यमानैः, न परमार्थतः । न ह्यप्रचलिते मनसि कश्चिद्भाव उपलक्षयितुं शक्यते केनचित् ; न चात्मनः प्रचलनमस्ति । प्रचलितस्यैवोपलभ्यमाना भावा न परमार्थतः सन्तः कल्पयितुं शक्याः । अतः असद्भिरेव प्राणादिभिर्भावैरद्वयेन च परमार्थसता आत्मना रज्जुवत्सर्वविकल्पास्पदभूतेन अयं स्वयमेवात्मा कल्पितः सदैकस्वभावोऽपि सन् । ते चापि प्राणादिभावाः अद्वयेनैव सता आत्मना विकल्पिताः ; न हि निरास्पदा काचित्कल्पना उपपद्यते ; अतः सर्वकल्पनास्पदत्वात्स्वेनात्मना अद्वयस्य अव्यभिचारात् कल्पनावस्थायामपि अद्वयता शिवा ; कल्पना एव त्वशिवाः, रज्जुसर्पादिवत्त्रासादिकारिण्यो हि ताः । अद्वयता अभया ; अतः सैव शिवा ॥

यदुक्तं निरोधाद्यभावस्य परमार्थतेति, तदयुक्तम् । सामान्यविशेषात्मकं वस्तु नानारसमिति मते निरोधादेः सुसाध्यत्वादित्याशङ्क्याऽऽह –

भावैरिति ।

भावा व्यावृत्ता विशेषाः। ते च व्यभिचारित्वादसन्तो रज्जुसर्पवत्। अद्वयमनुवृत्तं सामान्यं विशेषाकारैरवस्तुभूतैः सामान्याकारेण च तादृशेनायमव्यावृत्ताननुगतपूर्णसत्ताचिदेकतानः सन्नात्मैव मूढैर्मोहमाहात्म्यात् कल्प्यते। न वस्तुतः सामान्यविशेषभावोऽस्ति, परस्पराश्रयत्वादित्यर्थः।

विशेषाणामसत्त्वे कथं सत्त्वेन व्यवहारः स्यादित्याशङ्क्य सत्तातदात्म्येन कल्पितत्वात् तेषां सत्वेन व्यवहारोपपत्तिरित्याह –

भावा इति ।

अनुगतसत्ताकारेण कल्पिताः सत्त्वव्यवहारा भवन्तीति शेषः।

सामान्यविशेषभावस्य कल्पितत्वादखण्डैकरसत्वे वस्तुनः सिद्धे निरोधादेर्दुःसाधनत्वमुचितमिति फलितमाह –

तस्मादिति ।

श्लोकतात्पर्यं दर्शयति –

पूर्वेति ।

निरोधादिसर्वविशेषाभावोपलक्षितं वस्तु वस्तुभूतमिति पूर्वश्लोकार्थस्तस्य सामान्यविशेषात्मके वस्तुनि विशेषानाश्रित्य निरोधादेः सुसाधनत्वादसत्त्वमाशङ्क्यते, तेन तस्य साधनापेक्षायां तत्प्रदर्शनपरोऽयं श्लोक इत्यर्थः।

तत्र पूर्वार्धगतान्यक्षराणि दृष्टान्तावष्टम्भेन व्याचष्टे –

यथेत्यादिना ।

संसृष्टरूपेण कल्पितत्वेऽपि स्वरूपेणानारोपितत्वाद्रज्जुद्रव्यस्य व्यावहारिकसत्यत्वमुन्नेयम्। अविद्यमानैरयमात्मा कल्प्यते, न परमार्थतस्तेषां सत्त्वमिति शेषः।

कथं प्राणादीनां परमार्थतोऽसत्त्वमित्याशङ्क्यान्वयव्यतिरेकाभ्यां तेषां मनः स्पन्दितमात्रत्वप्रतीतेर्मृषात्वं स्वप्नविदित्याह –

न हीति ।

आत्मपरिणामत्वान्मनश्चलनमन्तरेणापि प्राणादिभावानां परमार्थतः सत्त्वमित्याशङ्क्याऽऽह –

न चेति ।

न हि विभोरात्मनो नभोवच्चलनं वास्तवमवकल्पते। न च तदभावे निरवयवस्य परिणामसम्भावनेत्यर्थः।

प्राणादीनामात्मपरिणामत्वासम्भवे फलितमाह –

प्रजलितस्येति ।

प्रगतं चलितं यस्य स तथा । कूटस्थस्यैवाऽऽत्मनो भासमाना भावा न परमार्थतः सन्तो भवितुमुत्सहन्ते। दृश्यत्वजडत्वादिना स्वप्नविन्मिथ्यात्वसिद्धेरित्यर्थः।

एवं प्राणादिभावानां मिथ्यात्वं प्रसाध्य फलितं दर्शयन् पूर्वार्धाक्षराणां व्याख्यानमुपसंहरति –

अत इति ।

अद्वयस्य परमार्थत्वात् तदात्मना कथमात्मा कल्पितः स्यादित्याशङ्क्य स्वरूपेणाकल्पितस्य संसृष्टरूपेण कल्पितत्वमिष्टमित्याह –

परमार्थसतेति ।

अविद्यावशादिष्टा कल्पना न स्वभाववशादित्याह –

सदेति ।

प्राणादीनामसत्त्वे सत्त्वेन कथं व्यवहारगोचरत्वमित्याशङ्क्य तृतीयपादार्थमाह –

ते चेति ।

कल्पितानां प्राणादिभावानामधिष्ठानसत्तया सत्त्वेन न सत्ताऽवकल्प्यते।

तेषामधिष्ठानापेक्षानियमाभावादित्याशङ्क्याऽऽह –

न हीति ।

सर्वा विकल्पना साधिष्ठानैव दृश्यते। न चासतोऽधिष्ठानत्वमारोपितानुवेधाभावात् तदनुवेधात्तु सतोऽधिष्ठानत्वमेष्टव्यम्। तथा च प्राणादिभावानां वस्तुतोऽसत्त्वेऽपि सति कल्पितानां सत्वेन व्यवहारसिद्धिरित्यर्थः।

चतुर्थपादार्थमाह –

अत इति ।

स्वेनेति विशेषणं संसृष्टरूपेण व्यभिचाराङ्गीकारार्थम्।

कल्पनाराहित्यदशायामेवाद्वयता शिवेत्याशङ्क्य कल्पनामात्रस्याशिवत्वान्मैवमित्याह –

कल्पनेति ।

त्रासादीत्यादिशब्देन हर्षशोकादयो गृह्यन्ते।

यदुक्तमद्वयता शिवेति तदुपपादयति –

अद्वयतेति ॥३३॥