ननु परापरदेवयोः स्तुतिपूर्वकप्रणामस्य श्राद्धादिक्रियायाश्च कर्तव्यतया प्रतिबन्धात् कथं विदुषो जडवदाचरणमिति, तत्राऽऽह –
निस्स्तुतिरिति ।
तथाऽपि जीवता क्वापि स्थातव्यत्वादाश्रयमुद्दिश्य प्रवृत्तेरवश्यकत्वात् कुतो जडसादृश्यमित्याशङ्क्याऽऽह –
चलेति ।
चलं चाचलं च चलाचले ते निकेतो यस्याऽऽशयः स तथेति यावत्।
तथाऽपि कौपीनाच्छादनाशनपानादिदेहस्थितिप्रयोजकापेक्षया प्रवृत्तिध्रौव्यान्न विदुषो जडतुल्यतेत्याशङ्क्याऽऽह –
यतिरिति ।
आकाङ्क्षापूर्वकं पूर्वार्धाक्षराणि व्याचष्टे –
कयेत्यादिना ।
वर्णाश्रमाभिमानवतस्तत्तत्कर्मसु वर्त्तमानस्य कथमिदं विशेषणमित्याशङ्क्याऽऽह –
त्यक्तेति ।
पारमहंसपारिव्राज्यं प्रतिपत्तुमशक्यमप्रामाणिकत्वादिति चेन्मैवं श्रुतिस्मृतिसिद्धत्वादित्याह –
एतमिति ।
विदित्वेत्यापातिकं वेदनं व्युत्थानहेतुत्वेनोच्यते। तस्मिन्नेव परस्मिन् वस्तुनि विषयान्तरेभ्यो व्यावृत्ता बुद्धिर्येषामिति तथा। तदेव परं वस्त्वात्मा निरुपचरितं स्वरूपं येषां ते तथोच्यन्ते।
तस्मिन्नेव परस्मिन्नात्मनि निष्ठा निश्चयेन स्थितिर्येषां ते तथेत्याह –
तन्निष्ठा इति ।
तदेवाऽऽत्मभूतं परं वस्तु परमयनं परा गतिर्येषां ते तथेत्याह –
तत्परायणा इति ।
आदिशब्देन ‘सर्वकर्माणि मनसा’(भ. गी. ५ । १३) इत्यादिवाक्यंगृह्यते।
कदा पुनश्चलो देहो विदुषो निकेतो भवति, तत्राऽऽह –
यदेति ।
अविवक्षिते हि कालविशेषे विवक्षितं व्यवहारं निमित्तीकृत्याऽऽत्मस्थितिमुक्तविशेषणवतीं विस्मृत्याहङ्कारममकारपरवशो यदा विद्वानवतिष्ठते तदेति योजना ।
स्वभावतस्त्वचलमात्मस्वरूपमेवास्य निकेतनं, चलं पुनः शरीरमुपदर्शितविस्मरणद्वारेणेति निगमयति –
सोऽयमिति ।
अविदुषो विशेषार्थं व्यावर्त्यं कीर्तयति –
न पुनरिति ।
चतुर्थपादार्थमाह –
स चेति ॥३७॥