प्रतिज्ञावाक्ये ब्रह्मशब्देन परमात्मा प्रकृतः, स कीदृगित्यपेक्षायामाह –
आत्मा हीति ।
जीवभेदप्रतीतिस्तर्हि कथमित्याशङ्क्याऽऽह –
जीवैरिति ।
यथाऽऽकाशो विभुत्वादिधर्मः स्वगततात्त्विकभेदवान्न भवति तथा परमात्मा विशेषाभावात्। यथा च महाकाशो घटाकाशाकारेण प्रतीयते तथा परमात्मा नानाविधजीवाकारेण प्रतीतिगोचरो भवतीत्यर्थः।
कथं सङ्घातानां परस्मादुत्पत्तिरित्याशङ्क्याह –
घटादिवदिति ।
यथा मृदः सकाशाद्घटादयो जायन्ते तथा परमात्मैव पृथिव्यादिसङ्घाताकारेण जायत इत्यर्थः।
यदाऽऽत्मनो जीवादीनामुत्पत्तिरिष्टा तदा तस्यामुत्पत्तौ दृष्टान्तवचनमेतदित्याह –
जाताविति ।
श्लोकस्य वृत्तानुवादपूर्वकं तात्पर्यमाह –
अजातीत्यादिना ।
प्रथमपादस्याक्षरार्थमाह –
आत्मेत्यादिना ।
विमतः स्वगततात्त्विकभेदशून्यः सूक्ष्मत्वान्निरवयवत्वाद्विभुत्वादाकाशवत्। न च परमाण्वादौ सूक्ष्मत्वादेर्व्यभिचारः। तस्यैवासम्मतत्वात्। क्वचिदपि तात्त्विकभेदासम्प्रतिपत्तेश्चेत्यर्थः।
जीवैरित्यादि व्यचष्टे –
जीवैरिति ।
जीवाकारेण परमात्मैवोक्तः। “क्षेत्रज्ञं चापि मां विद्धि”(भ. गी. १३ । २) इति स्मृतेरित्यर्थः।
उदितशब्दश्चेदुक्तार्थस्तर्हि परस्यैवाऽऽत्मनः सङ्घातरूपेणोक्तत्वे सप्रपञ्चत्वं प्रसज्येतेत्याशङ्क्याह –
अथ वेति ।
तर्हि नात्माऽश्रुतेरिति न्यायविरोधः स्यादित्याशङ्क्याऽऽह –
जीवात्मनामिति ।
तृतीयपादं व्याचष्टे –
तस्मादेवेति ।
उक्तेऽर्थे वाक्यमवतारयति –
अत इति ।
आकाशस्यावकाशप्रदानेन घटाद्युत्पत्तौ कारणत्वं निर्विकारस्यैव दृष्टमिति द्रष्टव्यम्।
जातावित्यादेरर्थमाह –
यदेति ॥३॥