माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
रूपकार्यसमाख्याश्च भिद्यन्ते तत्र तत्र वै ।
आकाशस्य न भेदोऽस्ति तद्वज्जीवेषु निर्णयः ॥ ६ ॥
कथं पुनरात्मभेदनिमित्त इव व्यवहार एकस्मिन्नात्मन्यविद्याकृत उपपद्यत इति, उच्यते । यथा इहाकाशे एकस्मिन्घटकरकापवरकाद्याकाशानामल्पत्वमहत्त्वादिरूपाणि भिद्यन्ते, तथा कार्यमुदकाहरणधारणशयनादि, समाख्याश्च घटाकाशः करकाकाश इत्याद्याः तत्कृताश्च भिन्ना दृश्यन्ते, तत्र तत्र वै व्यवहारविषये इत्यर्थः । सर्वोऽयमाकाशे रूपादिभेदकृतो व्यवहारः अपरमार्थ एव । परमार्थतस्त्वाकाशस्य न भेदोऽस्ति । न चाकाशभेदनिमित्तो व्यवहारोऽस्ति अन्तरेण परोपाधिकृतं द्वारम् । यथैतत् , तद्वद्देहोपाधिभेदकृतेषु जीवेषु घटाकाशस्थानीयेष्वात्मसु निरूपणात्कृतः बुद्धिमद्भिः निर्णयः निश्चय इत्यर्थः ॥

अद्वैतस्य श्रुत्यादिविरोधाभावेऽप्यनुमानविरोधमाशङ्क्यानैकान्तिकत्वेनानुमानं दूषयति –

रूपेति ।

श्लोकव्यावर्त्यामशङ्कामाह –

कथमिति ।

यथाऽऽत्मभेदवादे तद्भेदनिमित्तो रूपादिव्यवहारस्तथैकस्मिन्नेवात्मन्यात्मैक्यपक्षे रूपादिव्यवहारो नोपपद्यते। तथा च विमता जीवास्तत्त्वतो भिद्यन्ते भिन्ननामकत्वाद्भिन्नकार्यकरत्वात् भिन्नरूपत्वाद् घटपटादिवदित्यनुमानविरुद्धमद्वैतमित्यर्थः।

घटाकाशदिष्वनैकान्तिकत्वं विवक्षित्वा श्लोकाक्षराणि व्युत्पादयति –

उच्यत इत्यादिना ।

शयनादिकार्यं समाख्याश्च भिद्यन्त इति सम्बन्धः। तत्कृताश्चेत्यत्र तच्छब्देन विकल्पितो घटाकाशभेदो गृह्यते। चकारोऽवधारणार्थः।

घटाकाशादीनामुक्तहेतुमत्त्वेऽपि विपक्षत्वाभावे कथमनैकान्तिकत्वमित्याशङ्क्याऽऽह –

सर्वोऽयमिति ।

उक्तेऽर्थे तृतीयं पादं विभजते –

न चेति ।

परोपाधिशब्देन घटकरकादिरुच्यते।

दृष्टान्तमनूद्य दार्ष्टान्तिकं व्याचष्टे –

यथैतदित्यादिना ॥६॥