माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
नाकाशस्य घटाकाशो विकारावयवौ यथा ।
नैवात्मनः सदा जीवो विकारावयवौ तथा ॥ ७ ॥
ननु तत्र परमार्थकृत एव घटाकाशादिषु रूपकार्यादिभेदव्यवहार इति ; नैतदस्ति, यस्मात्परमार्थाकाशस्य घटाकाशो न विकारः, यथा सुवर्णस्य रुचकादिः, यथा वा अपां फेनबुद्बुदहिमादिः ; नाप्यवयवः, यथा वृक्षस्य शाखादिः । न तथा आकाशस्य घटाकाशो विकारावयवौ यथा, तथा नैवात्मनः परस्य परमार्थसतो महाकाशस्थानीयस्य घटाकाशस्थानीयो जीवः सदा सर्वदा यथोक्तदृष्टान्तवन्न विकारः, नाप्यवयवः । अत आत्मभेदकृतो व्यवहारो मृषैवेत्यर्थः ॥

घटाकाशादीनां विपक्षत्वाभावमाशङ्क्य परिहरति –

नेत्यादिना ।

घटाकाशादिराकाशस्य विकारोऽवयवो वेत्यङ्गीकारात् तत्रापि भेदस्य तात्त्विकत्वान्न विपक्षतेति श्लोकस्य व्यावर्त्यं चोद्यमुत्थापयति –

नन्विति ।

आकाशस्य निर्विकारत्वं निरवयवत्वं च लोकसिद्धं गृहीत्वा परिहरति –

नैतदस्तीति ।

तत्र वैधर्म्योदाहरणद्वयमाह –

यथेति ।

घटाकाशादिराकाशाख्यस्य महाकाशस्यावयवो न भवतीत्यत्र व्यतिरेकदृष्टान्तमाह –

यथा वृक्षस्येति ।

उक्तदृष्टान्तानां दार्ष्टान्तिकमाह –

न तथेति ।

घटाकाशस्य महाकाशं प्रति विकारत्वमवयवत्वं च नास्तीत्युक्तं दृष्टान्तत्वेनानूद्य दार्ष्टान्तिकं दर्शयन्नुत्तरार्धं व्याकरोति –

यथेत्यादिना ।

अनैकान्तिकत्वेनानुमानस्यामानत्वे स्थिते फलितमाह –

अत इति ॥७॥