माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
यथा भवति बालानां गगनं मलिनं मलैः ।
तथा भवत्यबुद्धानामात्मापि मलिनो मलैः ॥ ८ ॥
यस्माद्यथा घटाकाशादिभेदबुद्धिनिबन्धनो रूपकार्यादिभेदव्यवहारः, तथा देहोपाधिजीवभेदकृतो जन्ममरणादिव्यवहारः, तस्मात्तत्कृतमेव क्लेशकर्मफलमलवत्त्वमात्मनः, न परमार्थत इत्येतमर्थं दृष्टान्तेन प्रतिपिपादयिषन्नाह — यथा भवति लोके बालानाम् अविवेकिनां गगनम् आकाशं घनरजोधूमादिमलैः मलिनं मलवत् , न गगनयाथात्म्यविवेकवताम् , तथा भवति आत्मा परोऽपि — यो विज्ञाता प्रत्यक् — क्लेशकर्मफलमलैर्मलिनः अबुद्धानां प्रत्यगात्मविवेकरहितानाम् , नात्मविवेकवताम् । न ह्यूषरदेशः तृड्वत्प्राण्यध्यारोपितोदकफेनतरङ्गादिमान् , तथा नात्मा अबुधारोपितक्लेशादिमलैः मलिनो भवतीत्यर्थः ॥

जीवो ब्रह्मणो नांशो न विकारोऽपि तु ब्रह्मैवोपाध्यनुप्रविष्टं जीवशब्दितमित्युक्तं, तदयुक्तं, ब्रह्मणः शुद्धत्वाज्जीवस्य रागादिमलवत्त्वादेकत्वायोगादित्याशङ्क्य परमार्थतो जीवस्यापि नास्ति मलवत्त्वमित्याह –

यथेति ।

श्लोकस्य तात्पर्यमाह –

यस्मादिति ।

घटाकाशो मठाकाशः सूचीपाशाकाशश्चेत्युपाधिनिमित्तो भेदस्तद्विषया बुद्धिस्तत्प्रयुक्तो रूपभेदोऽर्थक्रियाभेदो नामभेदश्चेति व्यवहारो नभसि यथोपलभ्यते तथा देहाद्युपाधिभेदप्रयुक्तो जीवभेदस्तत्कृतो जननमरणसुखदुःखादिव्यवहारो व्यवस्थितो यस्मादास्थीयते तस्मात् तेनाविद्याविद्यमानेन कृतमेवाऽऽत्मनो रागादिमलवत्त्वं न वस्तुतोऽस्तीत्येतमर्थं दृष्टान्तद्वारा प्रतिपिपादयिषन्नादौ दृष्टान्तमाहेति योजना।

दृष्टान्तभागनिविष्टान्यक्षराणि व्याचष्टे –

यथेत्यादिना ।

दार्ष्टान्तिकभागगतानामक्षराणामर्थमाह –

तथेति ।

यो हि प्रत्यगात्मा विज्ञाता सोऽप्यबुद्धानां मलिनो भवतीति सम्बन्धः।

अबुद्धानामित्येतद् व्याचष्टे –

प्रत्यगात्मेति ।

अविवेकिभिरध्यारोपितेऽपि प्रत्यगात्मनो मलवत्त्वे मलप्रयुक्तं फलं तत्र वास्तवं भविष्यतीत्याशङ्क्याऽऽह –

न हीति ॥८॥