माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
मरणे सम्भवे चैव गत्यागमनयोरपि ।
स्थितौ सर्वशरीरेषु चाकाशेनाविलक्षणः ॥ ९ ॥
पुनरप्युक्तमेवार्थं प्रपञ्चयति — घटाकाशजन्मनाशगमनागमनस्थितिवत्सर्वशरीरेष्वात्मनो जन्ममरणादिराकाशेनाविलक्षणः प्रत्येतव्य इत्यर्थः ॥

ननु जीवो मरणानन्तरं धर्मानुरोधेन स्वर्गं गच्छति। अधर्मवशाच्च नरकं प्रतिपद्यते। धर्माधर्मयोश्च भोगेन क्षये पुनरागत्य योनिविशेषे सम्भवति। तत्र यावद्भोगं स्थित्वा पुनरपि परलोकाय प्रतिष्ठते। एवमिहलोकपरलोकसञ्चरणव्यवहारविरुद्धमद्वैतमिति, तत्राऽऽह –

मरण इति ।

श्लोकस्य तात्पर्यमाह –

पुनरपीति ।

आत्मनि सर्वो व्यवहारोऽविद्याकृतो वास्तवो नेत्युक्तोऽर्थः। आत्मनो हि गगनोपमस्य गत्यादेर्वस्तुतोऽसम्भवादविद्याकृतस्तस्मिन् गत्यादिरित्यर्थः॥९॥