माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
सङ्घाताः स्वप्नवत्सर्व आत्ममायाविसर्जिताः ।
आधिक्ये सर्वसाम्ये वा नोपपत्तिर्हि विद्यते ॥ १० ॥
घटादिस्थानीयास्तु देहादिसङ्घाताः स्वप्नदृश्यदेहादिवन्मायाविकृतदेहादिवच्च आत्ममायाविसर्जिताः, आत्मनो माया अविद्या, तया प्रत्युपस्थापिताः, न परमार्थतः सन्तीत्यर्थः । यदि आधिक्यमधिकभावः तिर्यग्देहाद्यपेक्षया देवादिकार्यकरणसङ्घातानाम् , यदि वा सर्वेषां समतैव, तेषां न ह्युपपत्तिसम्भवः, सम्भवप्रतिपादको हेतुः न विद्यते नास्ति ; हि यस्मात् , तस्मादविद्याकृता एव, न परमार्थतः सन्तीत्यर्थः ॥

ननु सङ्घातशब्दितानामुपाधीनां सत्यत्वात् तत्प्रत्युक्तभेदस्यापि तथात्वादद्वैतानुपपत्तितादवस्थ्यमिति चेत्तत्त्राऽऽह –

सङ्घाता इति ।

देवादिदेहानां पूज्यतमत्वेनाऽऽधिक्याभ्युपगमान्नासत्यत्वसिद्धिरित्याशङ्क्य देहभेदेषु केषुचिदाधिक्ये मूढदृष्ट्या कल्पितेऽपि विवेकिदृष्ट्या सर्वदेहानां पञ्चभूतात्मकत्वाविशेषादशेषसाम्ये वा स्वीकृते नास्ति सङ्घातेषु सत्यत्वे काचिदुपपत्तिरित्याह –

आधिक्य इति ।

पूर्वार्धाक्षराणि योजयति –

घटादीति ।

मणिमन्त्रादिरूपाम् मायामिन्द्रजालप्रयोजकभूतां व्यावर्तयति –

अविद्येति ।

विमता देहा न सत्या देहत्वात् सम्प्रतिपन्नविदित्यर्थः।

ब्रह्मदिदेहानामुत्कृष्टत्वान्नाविद्याकृतत्वमित्याशङ्क्य द्वितीयार्धं व्याचष्टे –

यदीत्यादिना ॥१०॥