मनुष्योऽहं प्राण्यहं प्रमाताऽहं कर्ताऽहं भोक्ताऽहमिति पञ्चानां विशिष्टानां यदेकं स्वरूपमनुगतं प्रत्यक्चैतन्यं तद् ब्रह्मैवेति जीवपरयोरैक्ये तैत्तिरीयश्रुतेस्तात्पर्यमुक्त्वा तत्रैव बृहदारण्यकश्रुतेरपि तात्पर्यमाह –
द्वयोरिति ।
मधुब्राह्मणे बहुषु पर्यायेष्वधिदैवाध्यात्मविभक्तयोः स्थानयोरयमेव स इति परं ब्रह्म प्रत्यक्प्रकाशितम्। अतोऽस्मिन् बृहदारण्यकश्रुतेरपि ब्रह्मात्मैक्ये तात्पर्यमित्यर्थः।
तत्र दृष्टान्तमाह –
पृथिव्यामिति ।
न केवलमैक्ये तैत्तिरीयश्रुतेरेव तात्पर्यं, किं तु बृहदारण्यकश्रुतेरपीत्याह –
किं चेति ।
अधिदैवं पृथिव्यादावध्यात्मं च शरीरे तेजोमयो ज्योतिर्मयश्चैतन्यप्रधानोऽमृतमयोऽमरणधर्मा पुरुषः पूर्णः पृथिव्यादौ शरीरे चान्तर्गतो यो विज्ञाता स पर एवाऽऽत्मा। तेन स विज्ञाता सर्वं पूर्णमपरिच्छिन्नं ब्रह्मैवेति परं ब्रह्म प्रकाशितमिति सम्बन्धः।
अपवादावस्थायामध्यारोपासम्भवाद् द्वयोर्द्वयोरिति कथमुच्यते तत्राऽऽह –
आ द्वैतक्षयादिति ।
द्वैतक्षयपर्यन्तं ब्रह्म प्रकाशितम्। द्वओर्द्वयोरिति पुनरनुवादमात्रमित्यर्थः।
मधुज्ञाने मध्वेव प्रकाशितं न ब्रह्मेत्याशङ्क्य मधुज्ञानशब्दार्थं व्युत्पादयति –
क्वेत्यादिना ।
शब्दस्य क्वचिदाश्रितत्वं रूपवदनुमीयते। तच्च शब्दाधिकरणं सामान्यतः सिद्धं पारिशेष्यादाकाशमिति सिद्धमिति। तच्च कल्पनालाघवादेकमेवेति गम्यते। तथा च बहिरन्तश्चैकमेवाऽऽकाशमनुमानप्रामाण्यादधिगतम्।
तथाऽधिदैवमध्यात्मं च ब्रह्म प्रत्यग्भूतं सिद्धमित्युत्तरार्धं व्याचष्टे –
किमिवेत्यादिना ॥१२॥