माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
जीवात्मनोरनन्यत्वमभेदेन प्रशस्यते ।
नानात्वं निन्द्यते यच्च तदेवं हि समञ्जसम् ॥ १३ ॥
यद्युक्तितः श्रुतितश्च निर्धारितं जीवस्य परस्य चात्मनोऽनन्यत्वम् अभेदेन प्रशस्यते स्तूयते शास्त्रेण व्यासादिभिश्च, यच्च सर्वप्राणिसाधारणं स्वाभाविकं शास्त्रबहिर्मुखैः कुतार्किकैर्विरचितं नानात्वदर्शनं निन्द्यते, ‘न तु तद्द्वितीयमस्ति’ (बृ. उ. ४ । ३ । २३) ‘द्वितीयाद्वै भयं भवति’ (बृ. उ. १ । ४ । २) ‘उदरमन्तरं कुरुते, अथ तस्य भयं भवति’ (तै. उ. २ । ७ । १) ‘इदं सर्वं यदयमात्मा’ (बृ. उ. २ । ४ । ६) ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’ (क. उ. २ । ४ । १०) इत्येवमादिवाक्यैरन्यैश्च ब्रह्मविद्भिः यच्चैतत् , तदेवं हि समञ्जसम् ऋज्ववबोधं न्याय्यमित्यर्थः । यास्तु तार्किकपरिकल्पिताः कुदृष्टयः, ताः अनृज्व्यो निरूप्यमाणा न घटनां प्राञ्चन्तीत्यभिप्रायः ॥

इतश्चैकत्वे श्रुतीनां तात्पर्यमित्याह –

जीवात्मनोरिति ।

अभेदेन “ब्रह्म वेद ब्रह्मैव भवति”(मु. उ. ३ । २ । ९) इत्यादिना ब्रह्मभावफलवादेनेत्यर्थः। यत्प्रशस्यते तद्विधेयमित्यादिन्यायादेकत्वदर्शने फलवादोपपत्त्युपलम्भादेकत्वं प्रशस्तत्वाद् विवक्षितमिति भावः। यच्चानेकत्वं सर्वप्राणिसाधारणं तन्निन्द्यमानं दृश्यते।

यन्निन्द्यते तन्निषिध्यत इति न्यायान्नानात्वं शास्त्रार्थो न भवतीत्याह –

नानात्वमिति ।

तदुभयमेकत्वप्रशंसनं नानात्वनिन्दनं चैकत्वमेव शास्त्रीयमित्यभ्युपगमे सति युक्तमिति फलितमाह –

तदेवं हीति ।

श्लोकाक्षराणि व्याचष्टे –

यदिति ।

अनन्यत्वाभावशङ्कां व्यावर्त्यैकरसत्वं दर्शयति –

अभेदेनेति ।

तत्प्रशस्यते शास्त्रेणेति तत्पदमादाय व्याख्येयम्। शास्त्रेणाभेदवेदनेन फलवादेनेत्यर्थः।

व्यासपराशरादिभिश्च वेदार्थं व्याचक्षाणैरेकत्वं स्तूयते “वासुदेवः सर्वमिति स महात्मा सुदुर्लभः”(भ. गी. ७ । १९) , “अहं हरिः सर्वमिदं जनार्दनो नान्यत्ततः कारणकार्यजातम्”(विष्णुपुराणम् १।२२।८७) इत्यादिवाक्यैरित्याह –

व्यासादिभिश्चेति ।

द्वितीयार्धं विभजते –

यच्चेति ।

तन्निन्द्यत इति यच्छब्देनोपक्रमाद् द्रष्टव्यम्। “अविद्यामोहितात्मानः पुरुषा भिन्नदर्शिनः”(विष्णुपुराणम् ५।३३।४९) , “किं तेन न कृतं पापं चोरेणाऽऽत्मापहारिणा” इत्यादिवाक्यैर्व्यासादयोऽपि द्वैतदर्शनं निन्दन्तीत्याह –

अन्यैश्चेति ।

एवमनेकत्वदर्शनस्य निन्दितत्वेन निषिद्धत्वान्नानेकत्वं शास्त्रीयमित्युक्त्वा चतुर्थपादार्थमाह –

यच्चैतदिति ।

विषयभेदेन प्रशंसनं निन्दनं चेत्यर्थः।

एवं हीति ।

द्वैतस्याशास्त्रीयत्वमद्वैतस्यैव तत्तात्पर्यगम्यत्वमित्यङ्गीकारे सतीत्यर्थः।

भेददृष्टीनामपि न्याय्यत्वाविशेषाद्भेददर्शननिन्दनस्य कुतो न्याय्यत्वमित्याशङ्क्याऽऽह –

यास्त्विति ।

या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः। सर्वास्ता निष्फलाः प्रेत्य तमोमूला हि ताः स्मृताः॥ इति मनुवचनादित्यर्थः ।

न्यायविरोधादपि भेदवादानामसमञ्जसत्वमित्याह –

निरूप्यमाणा इति ।

वैशेषिकवैनाशिकादिकल्पना भेदानुसारिण्यो, भेदश्च परस्पराश्रयतादिदोषदूषितो न प्रमीयते। तेन भेदवादानामुत्प्रेक्षामूलानामसमञ्जसतेत्यर्थः॥१३॥