इतश्चैकत्वे श्रुतीनां तात्पर्यमित्याह –
जीवात्मनोरिति ।
अभेदेन “ब्रह्म वेद ब्रह्मैव भवति”(मु. उ. ३ । २ । ९) इत्यादिना ब्रह्मभावफलवादेनेत्यर्थः। यत्प्रशस्यते तद्विधेयमित्यादिन्यायादेकत्वदर्शने फलवादोपपत्त्युपलम्भादेकत्वं प्रशस्तत्वाद् विवक्षितमिति भावः। यच्चानेकत्वं सर्वप्राणिसाधारणं तन्निन्द्यमानं दृश्यते।
यन्निन्द्यते तन्निषिध्यत इति न्यायान्नानात्वं शास्त्रार्थो न भवतीत्याह –
नानात्वमिति ।
तदुभयमेकत्वप्रशंसनं नानात्वनिन्दनं चैकत्वमेव शास्त्रीयमित्यभ्युपगमे सति युक्तमिति फलितमाह –
तदेवं हीति ।
श्लोकाक्षराणि व्याचष्टे –
यदिति ।
अनन्यत्वाभावशङ्कां व्यावर्त्यैकरसत्वं दर्शयति –
अभेदेनेति ।
तत्प्रशस्यते शास्त्रेणेति तत्पदमादाय व्याख्येयम्। शास्त्रेणाभेदवेदनेन फलवादेनेत्यर्थः।
व्यासपराशरादिभिश्च वेदार्थं व्याचक्षाणैरेकत्वं स्तूयते “वासुदेवः सर्वमिति स महात्मा सुदुर्लभः”(भ. गी. ७ । १९) , “अहं हरिः सर्वमिदं जनार्दनो नान्यत्ततः कारणकार्यजातम्”(विष्णुपुराणम् १।२२।८७) इत्यादिवाक्यैरित्याह –
व्यासादिभिश्चेति ।
द्वितीयार्धं विभजते –
यच्चेति ।
तन्निन्द्यत इति यच्छब्देनोपक्रमाद् द्रष्टव्यम्। “अविद्यामोहितात्मानः पुरुषा भिन्नदर्शिनः”(विष्णुपुराणम् ५।३३।४९) , “किं तेन न कृतं पापं चोरेणाऽऽत्मापहारिणा” इत्यादिवाक्यैर्व्यासादयोऽपि द्वैतदर्शनं निन्दन्तीत्याह –
अन्यैश्चेति ।
एवमनेकत्वदर्शनस्य निन्दितत्वेन निषिद्धत्वान्नानेकत्वं शास्त्रीयमित्युक्त्वा चतुर्थपादार्थमाह –
यच्चैतदिति ।
विषयभेदेन प्रशंसनं निन्दनं चेत्यर्थः।
एवं हीति ।
द्वैतस्याशास्त्रीयत्वमद्वैतस्यैव तत्तात्पर्यगम्यत्वमित्यङ्गीकारे सतीत्यर्थः।
भेददृष्टीनामपि न्याय्यत्वाविशेषाद्भेददर्शननिन्दनस्य कुतो न्याय्यत्वमित्याशङ्क्याऽऽह –
यास्त्विति ।
या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः। सर्वास्ता निष्फलाः प्रेत्य तमोमूला हि ताः स्मृताः॥ इति मनुवचनादित्यर्थः ।
न्यायविरोधादपि भेदवादानामसमञ्जसत्वमित्याह –
निरूप्यमाणा इति ।
वैशेषिकवैनाशिकादिकल्पना भेदानुसारिण्यो, भेदश्च परस्पराश्रयतादिदोषदूषितो न प्रमीयते। तेन भेदवादानामुत्प्रेक्षामूलानामसमञ्जसतेत्यर्थः॥१३॥