माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
मृल्लोहविस्फुलिङ्गाद्यैः सृष्टिर्या चोदितान्यथा ।
उपायः सोऽवताराय नास्ति भेदः कथञ्चन ॥ १५ ॥
ननु यद्युत्पत्तेः प्रागजं सर्वमेकमेवाद्वितीयम् , तथापि उत्पत्तेरूर्ध्वं जातमिदं सर्वं जीवाश्च भिन्ना इति । मैवम् , अन्यार्थत्वादुत्पत्तिश्रुतीनाम् । पूर्वमपि परिहृत एवायं दोषः — स्वप्नवदात्ममायाविसर्जिताः सङ्घाताः, घटाकाशोत्पत्तिभेदादिवज्जीवानामुत्पत्तिभेदादिरिति । इत एव उत्पत्तिभेदादिश्रुतिभ्य आकृष्य इह पुनरुत्पत्तिश्रुतीनामैदम्पर्यप्रतिपिपादयिषयोपन्यासः मृल्लोहविस्फुलिङ्गादिदृष्टान्तोपन्यासैः सृष्टिः या च उदिता प्रकाशिता कल्पिता अन्यथान्यथा च, स सर्वः सृष्टिप्रकारो जीवपरमात्मैकत्वबुद्ध्यवतारायोपायोऽस्माकम् , यथा प्राणसंवादे वागाद्यासुरपाप्मवेधाद्याख्यायिका कल्पिता प्राणवैशिष्ट्यबोधावताराय ; तदप्यसिद्धमिति चेत् ; न, शाखाभेदेष्वन्यथान्यथा च प्राणादिसंवादश्रवणात् । यदि हि वादः परमार्थ एवाभूत् , एकरूप एव संवादः सर्वशाखास्वश्रोष्यत, विरुद्धानेकप्रकारेण नाश्रोष्यत ; श्रूयते तु ; तस्मान्न तादर्थ्यं संवादश्रुतीनाम् । तथोत्पत्तिवाक्यानि प्रत्येतव्यानि । कल्पसर्गभेदात्संवादश्रुतीनामुत्पत्तिश्रुतीनां च प्रतिसर्गमन्यथात्वमिति चेत् ; न, निष्प्रयोजनत्वाद्यथोक्तबुद्ध्यवतारप्रयोजनव्यतिरेकेण । न ह्यन्यप्रयोजनवत्त्वं संवादोत्पत्तिश्रुतीनां शक्यं कल्पयितुम् । तथात्वप्रत्तिपत्तये ध्यानार्थमिति चेत् ; न, कलहोत्पत्तिप्रलयानां प्रतिपत्तेरनिष्टत्वात् । तस्मादुत्पत्त्यादिश्रुतय आत्मैकत्वबुद्ध्यवतारायैव, नान्यार्थाः कल्पयितुं युक्ताः । अतो नास्त्युत्पत्त्यादिकृतो भेदः कथञ्चन ॥

सृष्ट्यादिश्रुतिषु शब्दशक्तिवशादेव सृष्ट्यादिभेददृष्टेरद्वैतानुपपत्तिरित्याशङ्क्याऽऽह –

मृल्लोहेति ।

उत्पत्त्यादि श्रुतीनां स्वार्थनिष्ठत्वमुपेत्य व्यावर्त्यं चोद्यमुत्थापयति –

नन्विति ।

तासां स्वार्थनिष्ठत्वाभावान्निरवकाशं चोद्यमिति परिहरति –

मैवमिति ।

परिहृतत्वाच्च नेदं चोद्यं सावकाशमित्याह –

पूर्वमपीति ।

यदि प्रकृतोत्पत्त्यादिश्रुतिभ्यः सकाशादुपक्रमोपसंहारैकरूप्यं तात्पर्यलिङ्गमाकृष्योद्भाव्य सृष्ट्यादिश्रुतेः स्वार्थपरत्वं परिहृतं तर्हि पुनरुपन्यासो वृथा स्यादित्याशङ्कते –

इत एवेति ।

उत्पत्त्यादिश्रुतीनां मिथ्यासृष्टिपरत्वं पूर्वमुक्तम् ।

इह तु तासां ब्रह्मात्मैक्ये तात्पर्यप्रतिपादनेच्छया पुनरुपन्यासः सिध्यतीत्युत्तरमाह –

इह पुनरिति ।

पादत्रयगतान्यक्षराणि योजयति –

मृदित्यादिना ।

यः शब्दशक्त्या प्रतीयते न स श्रुत्यर्थो भवति, किं तु तात्पर्यगम्यस्यैव श्रुत्यर्थतेत्यत्र दृष्टान्तमाह –

यथेति ।

वागादीनां प्राणानामहं श्रेयानहं श्रेयानिति मिथः संघर्षः संवादस्तत्र याऽऽख्यायिका श्रूयते नासौ श्रुत्यर्थो भवति वागादीनामचेतनत्वात्। तथा सृष्ट्यादिश्रुतिरपि न स्वार्थे तत्पर्यवतीत्यर्थः।

उदाहरणान्तरं सूचयति –

वागादीति ।

देवासुरसङ्ग्रामे देवास्तावदसुरानभिभवितुं यज्ञमुपचक्रमिरे। वागादींश्चोद्गातृत्वेन वव्रिरे। तांश्च वागादीन् कल्याणासङ्गजेन पाप्मनाऽसुरा विविधुरित्याद्याख्यायिका च न यथाश्रुतार्था । वागादीनां वागभावेनोद्गानासामर्थ्यात् । किं त्वसुरैरधर्षितत्वात्प्राणोत्क्रान्तौ देहपातप्रसिद्धेश्च प्राणः श्रेष्ठो भवतीति प्राणवैशिष्ट्यनिश्चये बुद्ध्यवतारशेषत्वेन सा कल्पिता। तथैव प्रकृतेऽपि सृष्ट्यादिश्रुतेः स्वार्थे तात्पर्याभावात्तत्कार्यस्य तद्व्यतिरेकेणाभावात् तदेवास्तीत्यद्वैतबुद्ध्यवतारोपायत्वेन सृष्ट्यादिप्रक्रिया कल्पितेत्यर्थः।

देवताशब्दप्रयोगाच्चेतनत्वं वागादीनामिति मुख्यार्थत्वम् संवादादिश्रवणस्य, अतोऽसिद्धमुदाहरणमिति शङ्कते –

तदपीति ।

संवादविसंवादयोरसतोः श्रुतेऽर्थे प्रामाण्यमर्थवादानामित्यङ्गीकारादविरोधापेक्षमेवार्थवादप्रामाण्यम्।

इह तु परस्परव्याहतिदर्शनान्न प्रामाण्यमिति परिहरति –

न, शाखाभेदेष्विति ।

प्राणादीत्यादिशब्देन मुख्यप्राणातिरिक्ता वागादयो गृह्यन्ते।

उक्तमेव समाधानं व्यतिरेकमुखेण विवृणोति –

यदि हीति ।

क्वचिद्विवदमानानां प्राणानां स्वयमेव निर्णेतुमशक्तानां प्रजापतिमुपगतानां ‘यस्मिन्नुत्क्रान्ते शरीरमिदं पापिष्ठतरमिव तिष्ठति स वः श्रेष्ठो भवति’ इति तेनोक्तानां प्रवासः श्रूयते। क्वचित्तु स्वातन्त्र्येण यस्मिन्नुत्क्रान्ते शरीरमिदं पतति स नः श्रेयानित्यालोच्य प्रवासो व्यपदिश्यते। क्वचित्पुनर्वाक्चक्षुःश्रोत्रमनांसीति मुख्यप्राणातिरिक्ताश्चत्वारः श्रूयन्ते।

क्वचित्त्वगादयोऽपीत्येवं विरुद्धानेकप्रकारेण संवादश्रवणमस्तीत्याह –

श्रूयते त्विति ।

प्राणसंवादश्रुतीनां मिथो विरोधान्नास्ति स्वार्थे प्रामाण्यमित्युपसंहरति –

तस्मादिति ।

उक्तदृष्टान्तानुरोधादुत्पत्तिवाक्यान्यपि न विवक्षितार्थानि।

क्वचिदाकाशादिक्रमेण सृष्टिः क्वचिदग्न्यादिक्रमेण क्वचित्प्राणादिक्रमेण क्वचिदक्रमेणेत्येवं परस्परपराहतिदर्शनादित्याह –

तथेति ।

प्रतिकल्पं सृष्टिभेदस्येष्टत्वादुक्तश्रुतीनामपि प्रतिसर्गमन्यथात्वाद् व्यवस्थायाऽर्थवत्त्वं स्यादिति शङ्कते –

कल्पेति ।

सिद्धे प्रामाण्ये व्यवस्था कल्प्यते।

तदेव नाद्यापि सिद्धमित्युत्तरमाह –

नेत्यादिना ।

तासां प्रयोजनवत्त्वं त्वयाऽपि स्वीकृतमित्याशङ्क्याऽऽह –

यथोक्तेति ।

प्रयोजनान्तराभावं प्रकटयति –

न हीति ।

प्राणादिभावप्राप्तये ध्यानार्थं प्राणादिसङ्कीर्तनमिति शङ्कते –

तथात्वेति ।

‘तं यथा यथोपासते तदेव भवति’(शत. १० । ५ । २ । २०) इति श्रुतेः न्यायसाम्यात् कलहादिध्यानात्तत्प्रप्तिः फलं स्यात्, तच्चानिष्टमिति परिहरति –

नेत्यादिना ।

प्राणसंवादश्रुतीनां प्राणवैशिष्ट्यावबोधावतारार्थत्वमुपपाद्य दार्ष्टान्तिकमुपसंहरति –

तस्मादिति ।

उत्पत्त्यादिश्रुतीनामुत्पत्त्यादिपरत्वाभावे फलितं चतुर्थपादावष्टम्भेन स्पष्टयति –

अत इति ॥१५॥