उत्पत्यादिश्रुतिविरोधमद्वैते परिहृत्योपासनविध्यनुपपत्तिविरोधं परिहरति –
आश्रमा इति ।
आश्रमिणो वर्णिनश्च कार्यब्रह्मोपासका हीनदृष्टयः। कारणब्रह्मोपासका मध्यमदृष्टयः । अद्वितीयब्रह्मदर्शनशीलास्तूत्तमदृष्टयः। एवमेतेषु त्रिविधेषु मध्ये मन्दानां मध्यमानां चोत्तमदृष्टिप्रवेशार्थं दयालुना वेदेनोपासनोपदिष्टा। तथा चोपासनानुष्ठानद्वारेणोत्तमामेकत्वदृष्टिं क्रमेण प्राप्ता उत्तमेष्वेवान्तर्भविष्यतीत्यर्थः।
श्लोकव्यावर्त्यामाशङ्कामाह –
यदीति ।
तस्यैव परमार्थतः सत्त्वे प्रमाणमाह –
एकमेवेति ।
द्वैतप्रतीतेर्मिथ्याद्वैतविषयत्वेनाविरोधमाह –
असदिति ।
अद्वैतस्यैव वस्तुत्वे ध्यानविधिविरोधमाह –
किमर्थेति ।
उपासनोपदेशमेव विशदयति –
आत्मेति ।
तत्र हि निदिध्यासितव्य इत्युपासनोपदिश्यते। ‘य आत्मे’ त्यादौ तु ‘स विजिज्ञासितव्य’ इति ध्यानविधिः। ‘स क्रतु’ मित्यत्र सशब्देन शमादिमानधिकारी परामृश्यते।
अद्वैतस्यैव वस्तुत्वे कर्मविधिविरोधोऽपि प्रसरतीत्याह –
कर्माणि चेति ।
किमर्थान्युपदिष्ठानीति सम्बन्धः।
अद्वैताधिकारिणोऽधिकार्यन्तरं प्रति विधिद्वयं सावकाशमिति परिहरति –
श्रुण्विति ।
तत्रेत्युप्रासनोपदेशः कर्मोपदेशश्च गृह्यते।
तदेव कारणमक्षरयोजनया प्रकटयति –
आश्रमा इति ।
आश्रमशब्देनाऽऽश्रमिणो गृह्यन्तां, वर्णिनस्तु कथं गृहोरन्नित्याअशङ्क्याऽऽह –
आश्रमेति ।
शूद्रान् व्यावर्त्य त्रैवर्णिकानामेव ग्रहणार्थं मार्गगा इति विशेषणम्।
त्रैविध्यमेवाऽऽकाङ्क्ष्याद्वारा स्फोरयति –
कथमित्यादिना ।
कार्यब्रह्मविषयत्वान्निकृष्टत्वम्। मध्यमत्वं कारणब्रह्मविषयत्वात्। उत्कृष्टत्वमद्वैतविषयत्वादिति द्रष्टव्यम्।
एवं पूर्वार्धं व्याख्यायोत्तरार्धं व्याकरोति –
उपासनेति ।
कर्मोपदेशस्यापि तदर्थत्वमाह –
कर्माणि चेति ।
व्यावर्त्यां शङ्कां दर्शयति –
न चेति ।
वेदेनोपासनाद्युपदेशे मन्दानां मध्यमानां च कथमनुग्रहः सिध्यतीत्याशङ्क्याऽऽह –
सन्मार्गगा इति ।
प्राप्नुयुरित्युपासनोपदिष्टा कर्माणि चेति पूर्वेण सम्बन्धः।
उपास्यं ब्रह्मैव न भवतीति प्रतिषेधान्मन्दमध्यमदृष्टिविषयत्वमुपासनस्य प्रतिभातीत्याह –
यन्मनसेति ।
अद्वैतदृष्टीनां तु वर्णाश्रमभेदाभिमानाभावादेव नोपासनं कर्म वा सम्भवतीत्याह –
तत्त्वमसीति ॥१६॥