माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
आश्रमास्त्रिविधा हीनमध्यमोत्कृष्टदृष्टयः ।
उपासनोपदिष्टेयं तदर्थमनुकम्पया ॥ १६ ॥
यदि हि पर एवात्मा नित्यशुद्धबुद्धमुक्तस्वभाव एकः परमार्थतः सन् ‘एकमेवाद्वितीयम्’ (छा. उ. ६ । २ । २) इत्यादिश्रुतिभ्यः, असदन्यत् , किमर्थेयमुपासनोपदिष्टा ‘आत्मा वा अरे द्रष्टव्यः’ (बृ. उ. २ । ४ । ५) ‘य आत्मापहतपाप्मा’ (छा. उ. ८ । ७ । १) ‘स क्रतुं कुर्वीत’ (छा. उ. ३ । १४ । १) ‘आत्मेत्येवोपासीत’ (बृ. उ. १ । ४ । ७) इत्यादिश्रुतिभ्यः, कर्माणि चाग्निहोत्रादीनि ? शृणु तत्र कारणम् — आश्रमाः आश्रमिणोऽधिकृताः, वर्णिनश्च मार्गगाः, आश्रमशब्दस्य प्रदर्शनार्थत्वात् , त्रिविधाः । कथम् ? हीनमध्यमोत्कृष्टदृष्टयः हीना निकृष्टा मध्यमा उत्कृष्टा च दृष्टिः दर्शनसामर्थ्यं येषां ते, मन्दमध्यमोत्तमबुद्धिसामर्थ्योपेता इत्यर्थः । उपासना उपदिष्टा इयं तदर्थं मन्दमध्यमदृष्ट्याश्रमाद्यर्थं कर्माणि च । न चात्मैक एवाद्वितीय इति निश्चितोत्तमदृष्ट्यर्थम् । दयालुना देवेनानुकम्पया सन्मार्गगाः सन्तः कथमिमामुत्तमामेकत्वदृष्टिं प्राप्नुयुरिति, ‘यन्मनसा न मनुते येनाहुर्मनो मतम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते’ (के. उ. १ । ५) ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) ‘आत्मैवेदं सर्वम्’ (छा. उ. ७ । २५ । २) इत्यादिश्रुतिभ्यः ॥

उत्पत्यादिश्रुतिविरोधमद्वैते परिहृत्योपासनविध्यनुपपत्तिविरोधं परिहरति –

आश्रमा इति ।

आश्रमिणो वर्णिनश्च कार्यब्रह्मोपासका हीनदृष्टयः। कारणब्रह्मोपासका मध्यमदृष्टयः । अद्वितीयब्रह्मदर्शनशीलास्तूत्तमदृष्टयः। एवमेतेषु त्रिविधेषु मध्ये मन्दानां मध्यमानां चोत्तमदृष्टिप्रवेशार्थं दयालुना वेदेनोपासनोपदिष्टा। तथा चोपासनानुष्ठानद्वारेणोत्तमामेकत्वदृष्टिं क्रमेण प्राप्ता उत्तमेष्वेवान्तर्भविष्यतीत्यर्थः।

श्लोकव्यावर्त्यामाशङ्कामाह –

यदीति ।

तस्यैव परमार्थतः सत्त्वे प्रमाणमाह –

एकमेवेति ।

द्वैतप्रतीतेर्मिथ्याद्वैतविषयत्वेनाविरोधमाह –

असदिति ।

अद्वैतस्यैव वस्तुत्वे ध्यानविधिविरोधमाह –

किमर्थेति ।

उपासनोपदेशमेव विशदयति –

आत्मेति ।

तत्र हि निदिध्यासितव्य इत्युपासनोपदिश्यते। ‘य आत्मे’ त्यादौ तु ‘स विजिज्ञासितव्य’ इति ध्यानविधिः। ‘स क्रतु’ मित्यत्र सशब्देन शमादिमानधिकारी परामृश्यते।

अद्वैतस्यैव वस्तुत्वे कर्मविधिविरोधोऽपि प्रसरतीत्याह –

कर्माणि चेति ।

किमर्थान्युपदिष्ठानीति सम्बन्धः।

अद्वैताधिकारिणोऽधिकार्यन्तरं प्रति विधिद्वयं सावकाशमिति परिहरति –

श्रुण्विति ।

तत्रेत्युप्रासनोपदेशः कर्मोपदेशश्च गृह्यते।

तदेव कारणमक्षरयोजनया प्रकटयति –

आश्रमा इति ।

आश्रमशब्देनाऽऽश्रमिणो गृह्यन्तां, वर्णिनस्तु कथं गृहोरन्नित्याअशङ्क्याऽऽह –

आश्रमेति ।

शूद्रान् व्यावर्त्य त्रैवर्णिकानामेव ग्रहणार्थं मार्गगा इति विशेषणम्।

त्रैविध्यमेवाऽऽकाङ्क्ष्याद्वारा स्फोरयति –

कथमित्यादिना ।

कार्यब्रह्मविषयत्वान्निकृष्टत्वम्। मध्यमत्वं कारणब्रह्मविषयत्वात्। उत्कृष्टत्वमद्वैतविषयत्वादिति द्रष्टव्यम्।

एवं पूर्वार्धं व्याख्यायोत्तरार्धं व्याकरोति –

उपासनेति ।

कर्मोपदेशस्यापि तदर्थत्वमाह –

कर्माणि चेति ।

व्यावर्त्यां शङ्कां दर्शयति –

न चेति ।

वेदेनोपासनाद्युपदेशे मन्दानां मध्यमानां च कथमनुग्रहः सिध्यतीत्याशङ्क्याऽऽह –

सन्मार्गगा इति ।

प्राप्नुयुरित्युपासनोपदिष्टा कर्माणि चेति पूर्वेण सम्बन्धः।

उपास्यं ब्रह्मैव न भवतीति प्रतिषेधान्मन्दमध्यमदृष्टिविषयत्वमुपासनस्य प्रतिभातीत्याह –

यन्मनसेति ।

अद्वैतदृष्टीनां तु वर्णाश्रमभेदाभिमानाभावादेव नोपासनं कर्म वा सम्भवतीत्याह –

तत्त्वमसीति ॥१६॥