अद्वैतदर्शनस्योपासनादिविधिविरोधाभावेऽपि मतान्तरैर्विरोधोऽस्तीत्याशङ्क्य तेषां भ्रान्तिमूलत्वान्मैवमित्याह –
स्वसिद्धान्तेति ।
श्लोकस्य तात्पर्यं वक्तुं भूमिकां करोति –
शास्त्रेति ।
तद्वाह्यत्वादित्यत्र तच्छब्देन शास्त्रोपपत्ती गृह्येते।
द्वैतदर्शनस्य मिथ्यादर्शनत्वे हेत्वन्तरपरत्वमवतारितस्य श्लोकस्य दर्शयति –
इतश्चेति ।
इतः शब्दार्थमेव दर्शयति –
द्वैतिनामिति ।
आदिशब्देन मदमानादयो गृहीताः।
स्वीयं स्वीयं सिद्धान्तं व्यवस्थापयितुं तत्त्वज्ञानमधिकृत्य प्रवृत्तानां वादिनां कुतो दोषास्पदत्वमित्याक्षिपति –
कथमिति ।
श्लोकाक्षरयोजनया परिहरति –
स्वसिद्धान्तेत्यादिना ।
निश्चयमेव स्फोरयति –
एवमेवेति ।
रागास्पदत्वेऽपि तेषां द्वेषास्पदत्वं कथमित्याशङ्क्याऽऽह –
प्रतिपक्षमिति ।
उत्तरार्द्धं विभजते –
स्वसिद्धान्तेति ।
यद्धि वादिनां प्रत्येकं स्वसिद्धान्तत्वेनोपसंगृहीतं दर्शनं तन्निर्धारणार्थमन्योन्यं वादिनो विरोधमाचरन्तो दृश्यन्ते। न च तैरद्वैतदर्शनं विरुध्यमानमध्यवसीयते। यथा स्वकीयकरचरणादिभिराघाते कदाचिदाचरितेऽपि द्वेषो न जायते, परबुद्ध्यभावात्। तथा द्वैताभिमानिभिरुपद्रवे क्षुद्रे कृतेऽपि नाद्वैतदर्शिनस्तेषु द्वेषो जायते। सर्वानन्यत्वात् परबुद्ध्यभावादित्यर्थः।
अद्वैतदर्शनस्य सम्यग्दर्शनत्वं प्रतिज्ञातं कथं प्रदर्शितया प्रक्रियया प्रतिपन्नमित्याशङ्क्याऽऽह –
एवमिति ॥१७॥