माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
अद्वैतं परमार्थो हि द्वैतं तद्भेद उच्यते ।
तेषामुभयथा द्वैतं तेनायं न विरुध्यते ॥ १८ ॥
केन हेतुना तैर्न विरुध्यत इत्युच्यते — अद्वैतं परमार्थः, हि यस्मात् द्वैतं नानात्वं तस्याद्वैतस्य भेदः तद्भेदः, तस्य कार्यमित्यर्थः, ‘एकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) ‘तत्तेजोऽसृजत’ (छा. उ. ६ । २ । ३) इति श्रुतेः ; उपपत्तेश्च, स्वचित्तस्पन्दनाभावे समाधौ मूर्छायां सुषुप्तौ वा अभावात् । अतः तद्भेद उच्यते द्वैतम् । द्वैतिनां तु तेषां परमार्थतोऽपरमार्थतश्च उभयथापि द्वैतमेव ; यदि च तेषां भ्रान्तानां द्वैतदृष्टिः अस्माकमद्वैतदृष्टिरभ्रान्तानाम् , तेनायं हेतुना अस्मत्पक्षो न विरुध्यते तैः, ‘इन्द्रो मायाभिः’ (बृ. उ. २ । ५ । १९) ‘न तु तद्द्वितीयमस्ति’ (बृ. उ. ४ । ३ । २३) इति श्रुतेः । यथा मत्तगजारूढः उन्मत्तं भूमिष्ठम् ‘प्रतिगजारूढोऽहं गजं वाहय मां प्रति’ इति ब्रुवाणमपि तं प्रति न वाहयत्यविरोधबुद्ध्या, तद्वत् । ततः परमार्थतो ब्रह्मविदात्मैव द्वैतिनाम् । तेनायं हेतुना अस्मत्पक्षो न विरुध्यते तैः ॥

द्वैतपक्षैरद्वैतपक्षस्य विषयद्वारके विरोधेऽधिगम्यमाने कथमविरोधवाचोयुक्तिरित्याशङ्क्य स्वमतपर्यालोचनया तावदविरोधमाह –

अद्वैतमिति ।

मिथ्याभूतेन द्वैतेनाद्वैतस्याविरोधेऽपि परमार्थभूतेन तेन विरोधः स्यादित्याशङ्क्य तथाविधं द्वैतमेव नास्तीति मत्वाऽऽह –

तेषामिति ।

द्वैतिनां परमार्थत्वेनापरमार्थत्वेन च द्वैतमेव व्यवहारगोचरीभूतम्। तच्च सम्प्रतिपन्नद्वैतवन्मिथ्येत्येवं स्थिते न द्वैतेनाद्वैतस्य विरोधः शक्यशङ्को भवतीत्यर्थः।

श्लोकप्रतिषेध्यं प्रश्नं करोति –

केनेति ।

श्लोकाक्षराणामर्थमाचक्षाणो हेतुमाह –

उच्यत ति ।

द्वैतस्याद्वैतकार्यत्वे प्रमाणमाह –

एकमेवेति ।

श्रुतिप्रामाण्याद् द्वैतस्याद्वैतकार्यत्वावगमात् कार्यस्य च कारणाद्भेदेन सत्त्वनिषेधात् तत्सत्यमित्यवधारणान्नाद्वैतदर्शनं द्वैतदर्शनेन विरुद्धमित्यर्थः।

अद्वैतदर्शनं द्वैतदर्शनैरविरुद्धमित्यत्रैव युक्तिमाह –

उपपत्तेश्चेति ।

तामेवोपपत्तिं संक्षिप्य दर्शयति –

स्वचित्तेति ।

सुषुप्त्याद्यवस्थायां स्वकीयचित्तस्पन्दनाभावे मिथ्याज्ञानोपरमे सति द्वैतदर्शनाभावादद्वैतं सिद्धम्। ततश्च स्वप्नवज्जाग्रद्भेदानामुत्पत्तिदर्शनादित्युपपत्तेर्द्वैतमद्वैतकार्यं, न च कारणं तत्कार्यप्रतिभासैर्विरुध्यते कार्यस्य वाचारम्भणमात्रत्वात् कारणातिरेकेणाभावादित्यर्थः।

तेषामित्यादिभागं विभजते –

द्वैतिनां त्विति ।

परमार्थद्वैतांशेनाद्वैतविरोधमाशङ्क्य द्विधा व्यवहारेऽपि विमतस्य द्वैतस्य द्वैतत्वादेव सम्प्रतिपन्नवन्मिथ्यात्वसिद्धेर्न तेन विरोधोऽद्वैतस्येति मन्वानः सन्नाह –

यदि चेति ।

भ्रान्तिमूलद्वैतदर्शनैरद्वैतदर्शनं प्रमाणमूलमविरुद्धमित्येतद् दृष्टान्तेनोपपादयति –

यथेत्यादिना ।

कार्यकारणभूतयोर्द्वैताद्वैतयोरविरोधे सिद्धे फलितमाह –

तत इति ।

अद्वैतिनां द्वैतिनां च प्रातिस्विकपक्षपर्यालोचनातो द्वैतपक्षैरद्वैतपक्षो विरुद्धो न भवतीति फलितमुपसंहरति –

तेनेति ॥१८॥