माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
मायया भिद्यते ह्येतन्नान्यथाजं कथञ्चन ।
तत्त्वतो भिद्यमाने हि मर्त्यताममृतं व्रजेत् ॥ १९ ॥
द्वैतमद्वैतभेद इत्युक्ते द्वैतमप्यद्वैतवत्परमार्थसदिति स्यात्कस्यचिदाशङ्केत्यत आह — यत्परमार्थसदद्वैतम् , मायया भिद्यते ह्येतत् तैमिरिकानेकचन्द्रवत् रज्जुः सर्पधारादिभिर्भेदैरिव ; न परमार्थतः, निरवयवत्वादात्मनः । सावयवं ह्यवयवान्यथात्वेन भिद्यते, यथा मृत् घटादिभेदैः । तस्मान्निरवयवमजं नान्यथा कथञ्चन, केनचिदपि प्रकारेण न भिद्यत इत्यभिप्रायः । तत्त्वतो भिद्यमानं हि अमृतमजमद्वयं स्वभावतः सत् मर्त्यतां व्रजेत् , यथा अग्निः शीतताम् । तच्चानिष्टं स्वभाववैपरीत्यगमनम् , सर्वप्रमाणविरोधात् । अजमद्वयमात्मतत्त्वं माययैव भिद्यते, न परमार्थतः । तस्मान्न परमार्थसद्द्वैतम् ॥

अद्वैतमेव द्वैतात्मना परिणमते चेद् द्वैतमपि तात्विकं स्यादित्याशङ्क्याऽऽह –

माययेति ।

विवर्तवादानङ्गीकारे दोषमाह –

तत्त्वत इति ।

पूर्वार्धव्यावर्त्यामाशङ्कामादर्शयति –

द्वैतमिति ।

तत्र पूर्वार्धाक्षरण्यवतार्य व्याकरोति –

अत आहेति ।

विमतो भेदो मिथ्या भेदत्वाच्चन्द्रादिभेदवदित्यर्थः।

विमतं तत्त्वतो भेदरहितम्, निरवयत्वान्नित्यत्वादजत्वाच्च व्यतिरेकेण मृदादिवदित्याह –

नेत्यदिना ।

निरवयवत्वेऽपि वस्तुनः स्फुटनधर्मत्वमाशङ्क्याऽऽह –

सावयवं हीति ।

उक्तमनुमानं निगमयति –

तस्मादिति ।

अन्यथा परमार्थत्वेनेत्यर्थः। पुनर्नञनुकर्षणमन्वयार्थं, कार्यत्वधर्मत्वांशत्वादिरत्र प्रकारोऽभिप्रेतः।

विपक्षे दोषं वदन् द्वितीयार्धं विवृणोति –

तत्त्वत इति ।

प्रसङ्गस्येष्टत्वमाशङ्क्य निराचष्टे –

तच्चेति ।

विवर्तवादमुपसंहरति –

अजमिति ।

स्थिते विवर्तवादे फलितमाह –

तस्मादिति ॥१९॥