माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
अजातस्यैव भावस्य जातिमिच्छन्ति वादिनः ।
अजातो ह्यमृतो भावो मर्त्यतां कथमेष्यति ॥ २० ॥
ये तु पुनः केचिदुपनिषद्व्याख्यातारो ब्रह्मवादिनो वावदूकाः अजातस्यैव आत्मतत्त्वस्यामृतस्य स्वभावतो जातिम् उत्पत्तिम् इच्छन्ति परमार्थत एव, तेषां जातं चेत् , तदेव मर्त्यतामेष्यत्यवश्यम् । स च अजातो ह्यमृतो भावः स्वभावतः सन्नात्मा कथं मर्त्यतामेष्यति ? न कथञ्चन मर्त्यत्वं स्वभाववैपरीत्यमेष्यतीत्यर्थः ॥

स्वपक्षमुक्त्वा स्वयूथ्यपक्षमनुभाष्य दुषयति –

अजातस्येति ।

अनुवादभागं विभजते –

ये त्विति ।

स्वाभावत एवाजातस्य स्वभावत एवामृतस्य चाऽऽत्मतत्त्वस्य परमार्थत एव जातिमुत्पत्तिं ये स्वयूथ्याः स्वीकुर्वन्तीत्यर्थः। “जातस्य हि ध्रुवो मृत्युः”(भ. गी. २। २७) इति न्यायेन दूषयति –

तेषामिति ।

अजातो हीत्याद्यक्षराण्युक्तेऽर्थे योजयति –

स चेति ॥२०॥