माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
न भवत्यमृतं मर्त्यं न मर्त्यममृतं तथा ।
प्रकृतेरन्यथाभावो न कथञ्चिद्भविष्यति ॥ २१ ॥
यस्मान्न भवति अमृतं मर्त्यं लोके नापि मर्त्यममृतं तथा, ततः प्रकृतेः स्वभावस्य अन्यथाभावः स्वतः प्रच्युतिः न कथञ्चिद्भविष्यति, अग्नेरिवौष्ण्यस्य ॥

पदार्थानां स्वभाववैपरीत्यगमनमनुपपन्नमित्युक्तं प्रपञ्चयति –

न भवतीति ।

तत्र पूर्वार्धं हेतुत्वेन व्याचष्टे –

यस्मादिति ।

उत्तरार्धं हेतुमत्त्वेन योजयति –

तत इति ।

यथाऽग्नेः स्वभावभूतस्योष्णत्वस्यान्यथात्वं शैत्यगमनमयुक्तं तथाऽन्यत्रापि स्वभावस्यान्यथात्वमनुचितं स्वरूपनाशप्रसङ्गादित्यर्थः॥२१॥