माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
स्वभावेनामृतो यस्य भावो गच्छति मर्त्यताम् ।
कृतकेनामृतस्तस्य कथं स्थास्यति निश्चलः ॥ २२ ॥
यस्य पुनर्वादिनः स्वभावेन अमृतो भावः मर्त्यतां गच्छति परमार्थतो जायते, तस्य प्रागुत्पत्तेः स भावः स्वभावतोऽमृत इति प्रतिज्ञा मृषैव । कथं तर्हि ? कृतकेनामृतः तस्य स्वभावः । कृतकेनामृतः स कथं स्थास्यति निश्चलः ? अमृतस्वभावतया न कथञ्चित्स्थास्यति । आत्मजातिवादिनः सर्वथा अजं नाम नास्त्येव । सर्वमेतन्मर्त्यम् ; अतः अनिर्मोक्षप्रसङ्ग इत्यभिप्रायः ॥

ननु ब्रह्म कारणरूपेण प्रागुत्पत्तेरमृतमपि कार्याकारेणोत्पत्त्युत्तरकालं मर्त्यतां गमिष्यति। ततो रूपभेदादुभयमविरुद्धमिति, तत्राऽऽह –

स्वभावेनेति ।

पूर्वार्धं साध्याहारं योजयति –

यस्येति ।

प्रागवस्थायामपि कारणस्यैव कार्याकारेण जन्मयोग्यतया मर्त्यत्वावगमान्मृषैव प्रतिज्ञा स्यादित्यर्थः।

कथं तर्हि तस्य प्रतिज्ञा युक्तेत्याशङ्क्य कृतकेन मर्त्यविलयेनामृतस्तस्य वादिनः स कारणाख्यो भावो [न] भवतीति प्रतिज्ञा युक्तेत्याह –

कथमित्यादिना ।

भवतु प्रलयावस्थायाममृतावस्थापरिणामेनामृतत्वं ततो [नित्यो] वा किं [न] स्यादित्याशङ्क्याऽऽह –

कृतकेनेति ।

कृतकत्वस्य यत्कृतकं तदनित्यमिति विनाशित्वेन व्याप्तत्वादित्यर्थः।

किं चास्यामवस्थायां कार्यमात्रं वस्त्वित्यजं ब्रह्मास्मीति ज्ञानाभावान्मोक्षो न स्यादित्याह –

आत्मेति ॥२२॥