परिणामवादस्य सृष्टिश्रुत्यनुसारेण स्वीकार्यत्वमाशङ्क्य निरस्यति –
भूतत इति ।
परिणामवादे विवर्तवादे च सृष्टिश्रुतेरविशेषादद्वैतानुरोधिश्रुतियुक्तिवशाद् विवर्तवादस्यैव स्वीकर्तव्यतेति भावः।
सृष्टिश्रुतेरद्वैतानुगुण्ये प्रमाणयुक्त्यनुगृहीतमद्वैतमेवाभ्युपगन्तव्यमिति फलितमाह –
निश्चितमिति ।
श्लोकव्यावर्त्यां शङ्कां दर्शयति –
नन्विति ।
यद्यात्मा कार्याकारेण न जायते तर्हि सृष्टिश्रुतिरश्लिष्टा स्यादित्यर्थः।
सृष्ट्यनुवादिनी श्रुतिरस्तीत्यङ्गीकरोति –
बाढमिति ।
तस्या मिथ्यासृष्ट्यनुवादित्वेन कथमुपपत्तिरित्याशङ्क्याऽऽह –
सात्विति ।
कथमद्वैतपरत्वेन सृष्टिश्रुतेरुपपत्तिरित्याशङ्क्याऽऽह –
उपाय इति ।
यदि सृष्टिश्रुतेरद्वैतपरत्वेन तद्विरोधसमाधी अधस्तादेवोक्तौ तर्हि पुनश्चोद्यं तत्परिहारश्चायुक्तौ पुनरुक्तेरित्याशङ्क्याऽऽह –
इदानीमिति ।
मिथ्यासृष्टिवादे श्रुतिपदानामसृजताभवदित्यादिनामसामञ्जस्यविरोधाशङ्कायां तावन्मात्रम् परिहर्तुं पुनश्चोद्यपरिहारावित्यर्थः।
श्लोकस्य तात्पर्यमुक्त्वा पूर्वार्धाक्षराणि व्याकरोति –
भूतत इति ।
माया ह्येषा माया सृष्टेत्यादिवत् ’ तत्तेजोऽसृजते’ ति श्रुतिः। ’ सच्च त्यच्चाभावदि’ ति श्रुतिस्तु देवदत्तो व्याघ्रोऽभवदितिवत्। न च सत्यत्वं विशेषणमत्रोपलभ्यते।
तेन मायामय्यां सृष्टाविष्टायामपि सृष्टिश्रुतिः श्लिष्टेत्यर्थः। ‘गौणमुख्ययोर्मुख्ये सम्प्रत्यय’ इति न्यायमाश्रित्य शङ्कते –
नन्विति ।
अग्निर्माणवक इत्यत्र माणवकेऽग्निशब्दप्रयोगेऽप्यग्निमानयेत्यादिप्रयोगे प्रथमं वह्निप्रतीतेर्मुख्यमेव प्रथमं प्रतिभातीति मुख्ये पदव्युप्तत्तेर्मुख्यार्थतया सत्या सृष्टिरेष्टव्येत्यर्थः। मुख्यसृष्ट्यङ्गीकारेऽपि सत्या सृष्टिर्न सिध्यति।
अस्मत्पक्षे सत्यायाः सृष्टेः सृष्टिशब्दार्थत्वेनाप्रसिद्धत्वादिति परिहरति –
नेत्यादिना ।
लौकिकानां मुख्यसृष्टेः सत्यसृष्टित्वेन प्रसिद्धत्वेऽपि फलाभावान्न तत्र श्रुतितात्पर्यमित्याह –
निष्प्रयोजनत्वाच्चेति ।
अन्यथा सृष्टेरप्रसिद्धत्वमेव स्पष्टयति –
अविद्येति ।
गौणी स्वप्ने रथादिसृष्टिः। मुख्या जागरे घटादिसृष्टिः। सर्वाऽप्यविद्यावस्थायामेव। तस्यां सत्यामेव भावान्न तत्त्वदृष्ट्या काऽपि सृष्टिः सम्भवति। तथाभूतस्यान्यथाभूतस्य स्वतः परतो वा वस्तुनोऽन्यथाभावासम्भवात् तदतिरिकेण च सृष्टेरयोगादित्यर्थः।
वस्तुस्वरूपालोचनया वास्तव्याः सृष्टेरश्लिष्टत्वे श्रुतिमनुकूलयति –
सबाह्येति ।
सृष्टेरविद्याविद्यमानत्वेऽपि किं वस्तु विवक्षितमित्याशङ्क्योत्तरार्धं विभजते –
तस्मादिति ।
निरवयवत्वं विभुत्वमित्यादियुक्तिः।
तेनाद्वैतमेव श्रुतितात्पर्यगम्यं न द्वैतमिति फलितमाह –
तदेवेति ॥२३॥