सृष्टेर्मृषात्वस्पष्टीकरणद्वारेणाद्वैतमेव श्रुत्यर्थतया निर्धारयितुं श्रौतनिश्चयमेव विवृणोति –
नेहेति ।
आकाङ्क्षां प्रदर्श्य श्लोकाक्षराणि व्याकरोति –
कथमित्यादिना ।
तत्राऽऽद्यपादे व्यतिरेकं दर्शयित्वा पुनरन्वयाख्यानेन व्याचष्टे –
यदि हीति ।
द्वैतभावश्चेत्प्रतिषिध्यते कथं तर्हि सृष्टिरुपदिश्यते, तत्राह –
तस्मादिति ।
यथा प्राणवैशिष्ट्यदृष्ट्यर्थं प्राणसंवादः श्रुतिषु कल्प्यते तथा सृष्टिरेकत्वप्रतिपत्त्यर्थत्वेन कल्पिता। वास्तव्याः सृष्टेरयोगस्योपदिष्टत्वादित्यर्थः।
कल्पिता सृष्टिरित्यत्र हेत्वन्तरं दर्शयन् द्वितीयं पादमवतार्य तात्पर्यमाह –
इन्द्र इति ।
मायाशब्देन सृष्टेर्व्यपदेशादसौ कल्पितायुक्तेति शेषः।
अभिधानग्रन्थे प्रज्ञानामसु पाठान्मायाशब्दो मिथ्यार्थो न भवतीति शङ्कते –
नन्विति ।
मायाशब्दस्य प्रज्ञानामसु क्वाचित्कं पाठमङ्गीकरोति –
सत्यमिति ।
कथं तर्हि मिथ्यार्थत्वं, तत्राऽऽह –
इन्द्रियेति ।
न हि मायाशब्दिता प्रज्ञा ब्रह्मचैतन्यम्। ‘भूयश्चान्ते विश्वमायानिवृत्तिः’(श्वे. उ. १ । १०) इत्यादौ निवृत्तिश्रवणात्। किं त्वसाविन्द्रियजन्या। तस्याश्चाविद्यान्वयव्यतिरेकानुविधायितयाऽविद्यात्वेन मिथ्यात्वान्मायाशब्दस्य मिथ्यार्थत्वे नानुपपत्तिरित्यर्थः।
तात्पर्यार्थमुक्त्वा तत्रैवाक्षरानुगुण्यमाह –
मायाभिरिति ।
पुरुरूपः सन्नीयत इति सम्बन्धः।
मायामयी सृष्टिरित्यत्र हेत्वन्तरपरत्वेन तृतीयपादमवतारयति –
अजायमान इति ।
अजायमानस्य बहुधा विजायमानत्वं विरुद्धमित्याशङ्क्य चतुर्थपादमुत्थापयति –
तस्मादिति ।
अश्रुतस्य कथमेवकारस्याऽऽवापः स्यादित्याशङ्क्याऽऽह –
तुशब्द इति ।
अवधारणरूपमर्थमेवाभिनयति –
माययैवेति ।
कस्मादित्थमवधार्यते? वास्तवे जन्मनि का वस्तुक्षतिरित्याशङ्क्याऽऽह –
न ह्यजेति ।
आत्मैकत्वज्ञानमेव सृष्टिश्रुतितात्पर्यगम्यं सृष्टिस्तु तच्छेषत्वादविवक्षितेत्यत्र हेत्वन्तरमाह –
फलवत्त्वाच्चेति ।
तस्य फलवत्त्वे प्रमाणमाह –
तत्रेति ।
एकत्वमाचार्योपदेशमनुपश्यतः साक्षात्कुर्वतस्तत्रैकत्वसाक्षात्कारे सति शोकमोहोपलक्षितः संसारो न भवतीत्यर्थः।
न केवलं विफलत्वाद्भेददृष्टिरविवक्षिता किं तु निन्दितत्वेन निषिद्धत्वादनर्थकरत्वाच्चेत्याह –
मृत्योरिति ॥२४॥