माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
सम्भूतेरपवादाच्च सम्भवः प्रतिषिध्यते ।
को न्वेनं जनयेदिति कारणं प्रतिषिध्यते ॥ २५ ॥
‘अन्धं तमः प्रविशन्ति ये सम्भूतिमुपासते’ (ई. मा. ९) इति सम्भूतेरुपास्यत्वापवादात्सम्भवः प्रतिषिध्यते ; न हि परमार्थसद्भूतायां सम्भूतौ तदपवाद उपपद्यते । ननु विनाशेन सम्भूतेः समुच्चयविधानार्थः सम्भूत्यपवादः, यथा ‘अन्धं तमः प्रविशन्ति येऽविद्यामुपासते’ (ई. मा. १२) इति । सत्यमेव, देवतादर्शनस्य सम्भूतिविषयस्य विनाशशब्दवाच्यस्य च कर्मणः समुच्चयविधानार्थः सम्भूत्यपवादः ; तथापि विनाशाख्यस्य कर्मणः स्वाभाविकाज्ञानप्रवृत्तिरूपस्य मृत्योरतितरणार्थत्ववत् देवतादर्शनकर्मसमुच्चयस्य पुरुषसंस्कारार्थस्य कर्मफलरागप्रवृत्तिरूपस्य साध्यसाधनैषणाद्वयलक्षणस्य मृत्योरतितरणार्थत्वम् । एवं ह्येषणाद्वयरूपान्मृत्योरशुद्धेर्वियुक्तः पुरुषः संस्कृतः स्यात् । अतो मृत्योरतितरणार्था देवतादर्शनकर्मसमुच्चयलक्षणा ह्यविद्या । एवमेव एषणाद्वयलक्षणाविद्याया मृत्योरतितीर्णस्य विरक्तस्योपनिषच्छास्त्रार्थालोचनपरस्य नान्तरीयिका परमात्मैकत्वविद्योत्पत्तिरिति पूर्वभाविनीमविद्यामपेक्ष्य पश्चाद्भाविनी ब्रह्मविद्या अमृतत्वसाधना एकेन पुरुषेण सम्बध्यमाना अविद्यया समुच्चीयत इत्युच्यते । अतः अन्यार्थत्वादमृतत्वसाधनं ब्रह्मविद्यामपेक्ष्य, निन्दार्थ एव भवति सम्भूत्यपवादः यद्यप्यशुद्धिवियोगहेतुः अतन्निष्ठत्वात् । अत एव सम्भूतेरपवादात्सम्भूतेरापेक्षिकमेव सत्त्वमिति परमार्थसदात्मैकत्वमपेक्ष्य अमृताख्यः सम्भवः प्रतिषिध्यते । एवं मायानिर्मितस्यैव जीवस्य अविद्यया प्रत्युपस्थापितस्य अविद्यानाशे स्वभावरूपत्वात्परमार्थतः को न्वेनं जनयेत् ? न हि रज्ज्वामविद्याध्यारोपितं सर्पं पुनर्विवेकतो नष्टं जनयेत्कश्चित् ; तथा न कश्चिदेनं जनयेदिति । को न्वित्याक्षेपार्थत्वात्कारणं प्रतिषिध्यते । अविद्योद्भूतस्य नष्टस्य जनयितृ कारणं न किञ्चिदस्तीत्यभिप्रायः ; ‘नायं कुतश्चिन्न बभूव कश्चित्’ (क. उ. १ । २ । १८) इति श्रुतेः ॥

भेददृष्टेर्मिथ्यात्वे हेत्वन्तरमाह –

सम्भूतेरिति ।

सम्यग्भूतिरैश्वर्यं यस्याः सा सम्भूतिर्देवता हिरण्यगर्भाख्या। तस्याश्च कार्यमध्ये श्रेष्ठाया निन्दितत्वात् प्रधानमल्लनिबर्हणन्यायेन सम्भवशब्दितं कार्यमेव निषिध्यते। तथा च सिद्धं तस्यावस्तुत्वमित्यर्थः।

कारणप्रतिषेधेन तदवस्तुत्वसिद्धेश्च यथोक्तार्थसिद्धिरित्याह –

को न्वेनमिति ।

पूर्वार्धं व्याकरोति –

अन्धमिति ।

सम्भूत्युपासनाया मन्त्रार्धेनाऽऽद्येन निन्दां विधाय ‘ततो भूय इव’ इत्यादिनोत्तरार्धेन सम्भूतेरुक्ताया देवताया हेयत्वमुपपाद्यते। ततश्च प्रधानभूतदेवतोपास्यत्वापवादात्ततोऽर्वाक्तनं सर्वमेव सम्भवशब्दितं कार्यमात्रं निषिध्यते। तथा च तदवस्तुत्वसिद्धिरित्यर्थः।

सम्भूतेरपवादेऽपि तस्मिन्मिथ्यात्वनियमाभावान्न कार्यमात्रस्य मिथ्यात्वं शक्यं प्रतिज्ञातुमित्याशङ्क्याऽऽह –

न हीति ।

सम्भूतिनिन्दा तदवस्तुत्वख्यापनार्था न भवति; किं तु विनाशेन कर्मणा देवतोपासनस्य समुच्चयविध्यर्था; समुच्चयविधानस्य फलवत्त्वादिति शङ्कते –

नन्विति ।

अपवादस्य समुच्चयविध्यर्थत्वे दृष्टान्तमाह –

यथेति ।

अत्र खल्वविद्याशब्दितकर्मापवादो विद्याकर्मणोः समुच्चयविध्यर्थः स्थितो ‘विद्यां चाविद्यां च यस्तद्वेदोभयम् सह’(ई. उ. ११) इति श्रवणादित्यर्थः।

उक्तं चोद्यमनुजानाति –

सत्यमिति ।

तर्हि सम्भूत्यपवादस्तदवस्तुत्वख्यापको न भवतीत्युक्तं स्थितमेवेत्याशङ्क्य समुच्चयस्याविद्यावस्थायामवस्थितफलवत्त्वाद् यदवस्तुत्वं सम्भूत्यादेर्निन्दाधीनमुक्तं तत् तदवस्थमेवेति मन्वानः सन्नाह –

तथाऽपीति ।

यथाऽग्निहोत्रादेः शस्त्रीयस्य कर्मणोऽशास्त्रीयप्रवृत्तिरूपमृत्युतरणार्थत्वं तथा साधनाद्येषणारूपमृत्युतरणार्थत्वं समुच्चयस्यापि वाच्यम्। तथा च सम्भूत्यादेरवस्तुत्वमविरुद्धमित्यर्थः।

मृत्युतरणार्थत्वे संस्कारार्थत्वं कथमित्याशङ्क्याऽऽह –

एवं हीति ।

कामचारकामवादकामभक्षणादिलक्षणस्वाभविकप्रवृत्तिरूपाशुद्धिवियोगः संस्कारो यथा नित्याग्निहोत्रादिफलं तथा निष्कामेणानुष्ठितसमुच्चयफलं कामाख्याशुद्धिव्यावृत्तिरित्यर्थः। ‘अविद्यया मृत्युं तीर्त्वा’(ई. उ. ११) इति मन्त्रे मृत्युतरणहेतुरविद्येति श्रवणात् ‘सम्भूत्याऽमृतमश्नुत’(ई. उ. १४) इति च सम्भूतेरमृतत्वफलाभिधानात् कथं समुच्चयफलं मृत्योरतितरणमित्याशङ्क्याऽऽह –

अत इति ।

यतो न समुच्चयान्मुख्यममृतत्वं घटते, तस्य ‘विद्ययाऽमृतमश्नुत’(ई. उ. ११) इति वक्ष्यमाणत्वात्। अतः समुच्चयलक्षणाऽविद्या ‘अविद्यया मृत्युं तीर्त्वा’(ई. उ. ११) त्यत्र निर्दिश्यते। आपेक्षिकमृत्युतरणहेतुत्वसम्भवादित्यर्थः। यद्यविद्याशब्देन समुच्चयो विवक्ष्यते, कथं तर्हि ‘विद्यां चाविद्यां च’ इत्यनेन विद्याविद्ययोः समुच्चयो निर्दिश्यते।

न हि देवतादर्शनकर्मसमुच्चयस्य ब्रह्मविद्यया समुच्चयः सम्भवतीत्याशङ्क्याऽऽह –

एवमिति ।

नान्तरीयकत्वमवश्यम्भावित्वम्। प्रतिबन्धकाभावे कार्योत्पत्तेरुपपत्तेरित्यर्थः।

एवं मन्त्रार्थे स्थिते प्रकृते फलितमाह –

अत इति ।

अन्यार्थत्वं समुच्चयस्याशुद्धिक्षयहेतुत्वम्।

तच्चेदिष्टं किमित्यपवादस्तत्राऽऽह –

यद्यपीति ।

तथाऽप्यतन्निष्ठत्वात् ‘को न्वेनं जनयेत्पुनः’(बृ. उ. ३ । ९ । ७) इति श्रुत्यर्थमाचक्षाणो द्वितीयार्धं विभजते –

एवं मायेत्यादिना ।

उक्तमर्थं दृष्टान्तेन स्पष्टयति –

न हीति ।

न कश्चिदेनं जनयेदिति कारणं प्रतिषिध्यत इति सम्बन्धः।

प्रश्नार्थे किंशब्दे दृश्यमाने कथं कारणप्रतिषेधसिद्धिरित्याशङ्क्याऽऽह –

को न्विति ।

अक्षरार्थमुक्त्वा द्वितीयार्धस्य तात्पर्यमाह –

अविद्येति ।

ततश्चेदुद्भूतो जीवः कथं तस्य जनयितृ कारणं नेत्युच्यते व्याघातादित्याशङ्क्याऽऽह –

नष्टस्येति ।

जीवस्य जनयितृकारणाभावे प्रमाणमाह –

नायमिति ।

तस्याविद्यामन्तरेण स्वतो जन्माभावं सूचयति –

न बभूवेति ॥२५॥