माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
असतो मायया जन्म तत्त्वतो नैव युज्यते ।
वन्ध्यापुत्रो न तत्त्वेन मायया वापि जायते ॥ २८ ॥
असद्वादिनाम् असतो भावस्य मायया तत्त्वतो वा न कथञ्चन जन्म युज्यते, अदृष्टत्वात् । न हि वन्ध्यापुत्रो मायया तत्त्वतो वा जायते । तस्मादत्रासद्वादो दूरत एवानुपपन्न इत्यर्थः ॥

सत्पूर्वकं कार्यमिति न व्याप्तिः। असद्वादिभिरसतः सज्जन्माभ्युपगमादित्याशङ्क्याऽऽह –

असत इति ।

तत्त्वतोऽतत्त्वतो वा नासतः सदाकारेण जन्मेत्यर्थः।

तत्र दृष्टान्तमाह –

वन्ध्येति ।

पूर्वार्धं व्याकरोति –

असद्वादिनामिति ।

असतो निःस्वरूपस्य स्वरूपाभावादेव तत्त्वतोऽतत्त्वतो वा कार्याकारेण न युक्तं जन्मेत्यत्र हेतुमाह –

अदृष्टत्वादिति ।

उत्तरार्धं व्याकुर्वन्नदृष्टत्वमेव दृष्टान्तेन स्पष्टयति –

न हीति ।

सद्वादो मायया सम्भवति।

असद्वादस्तु तयाऽपि नेति विशेषं दर्शयन्नुपसंहरति –

तस्मादिति ।

कार्यकारणनिरूपणमत्रेति परामृश्यते॥२८॥