माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
यथा स्वप्ने द्वयाभासं स्पन्दते मायया मनः ।
तथा जाग्रद्द्वयाभासं स्पन्दते मायया मनः ॥ २९ ॥
कथं पुनः सतो माययैव जन्मेत्युच्यते — यथा रज्ज्वां विकल्पितः सर्पो रज्जुरूपेणावेक्ष्यमाणः सन् , एवं मनः परमात्मविज्ञप्त्यात्मरूपेणावेक्ष्यमाणं सत् ग्राह्यग्राहकरूपेण द्वयाभासं स्पन्दते स्वप्ने मायया, रज्ज्वामिव सर्पः ; तथा तद्वदेव जाग्रत् जागरिते स्पन्दते मायया मनः, स्पन्दत इवेत्यर्थः ॥

सत्तत्त्वस्यैव मायया जन्मेत्युक्तमुपपादयति –

यथेति ।

सत एव मायया जन्मेत्ययुक्तम्।

अवस्थाद्वयेऽपि द्वैतस्य मनः स्पन्दितत्वस्वीकारादिति श्लोकव्यावर्त्यं चोद्यमुत्थापयति –

कथमिति ।

अधिष्ठानरूपेण मनोऽपि सदिति सदृष्टान्तमुत्तरमाह –

उच्यत इति ।

मनसः सन्मात्रत्वेऽपि कथमनेकधा स्पन्दनमित्याशङ्क्य स्वप्नदृष्टान्तं व्याचष्टे –

ग्राह्येति ।

दार्ष्टान्तिकमाह –

तथेत्यादिना ।

मायाधीनं मनःस्पन्दनमवस्तुभूतमिति द्योतयितुमिवेत्युक्तम्॥२९॥