माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
अद्वयं च द्वयाभासं मनः स्वप्ने न संशयः ।
अद्वयं च द्वयाभासं तथा जाग्रन्न संशयः ॥ ३० ॥
रज्जुरूपेण सर्प इव परमार्थत आत्मरूपेण अद्वयं सत् द्वयाभासं मनः स्वप्ने, न संशयः । न हि स्वप्ने हस्त्यादि ग्राह्यं तद्ग्राहकं वा चक्षुरादि, द्वयं विज्ञानव्यतिरेकेणास्ति ; जाग्रदपि तथैवेत्यर्थः ; परमार्थसद्विज्ञानमात्राविशेषात् ॥

मनो ब्रह्म चेति कारणद्वयं तर्हि द्वैतस्य स्वीकृतमित्याशङ्क्य दृष्टान्तेन निराचष्टे –

अद्वयं चेति ।

दृष्टान्तभागं विभजते –

रज्ज्विति ।

दृष्टान्ते चैतन्यातिरिक्तस्य ग्रह्यग्राहकभेदस्य मनःस्पन्दितस्यासत्त्वं साधयति –

न हीति ।

तथैव जागरितेऽपि परमार्थात्मस्वरूपेणाद्वयं सन्मनो ग्राह्यग्राहकद्वैताकारेणावभासते।

तथा च परमार्थसतो विज्ञानमात्रस्यावस्थाद्वयेऽपि विशेषाभावात् तस्मिन्नेवाधिष्ठाने मायाकल्पितं मनः स्पन्दते द्वयाकारमित्यङ्गीकारात् न कारणद्वयं शङ्कितव्यमित्याह –

जाग्रदपीति ॥३०॥