माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
मनोदृश्यमिदं द्वैतं यत्किञ्चित्सचराचरम् ।
मनसो ह्यमनीभावे द्वैतं नैवोपलभ्यते ॥ ३१ ॥
रज्जुसर्पवद्विकल्पनारूपं द्वैतरूपेण मन एवेत्युक्तम् । तत्र किं प्रमाणमिति, अन्वयव्यतिरेकलक्षणमनुमानमाह । कथम् ? तेन हि मनसा विकल्प्यमानेन दृश्यं मनोदृश्यम् इदं द्वैतं सर्वं मन इति प्रतिज्ञा, तद्भावे भावात् तदभावे चाभावात् । मनसो हि अमनीभावे निरुद्धे विवेकदर्शनाभ्यासवैराग्याभ्यां रज्ज्वामिव सर्पे लयं गते वा सुषुप्ते द्वैतं नैवोपलभ्यत इति अभावात्सिद्धं द्वैतस्यासत्त्वमित्यर्थः ॥

मनोमात्रं द्वैतमित्यत्र प्रमाणमाह –

मनोदृश्यमिति ।

वृत्तमनूद्य श्लोकतात्पर्यमाह –

रज्ज्विति ।

यथा रज्जुः सर्परूपेण विकल्पते तथा मनो द्वैतरूपेण विकल्पनात्मकम्। तच्चाविद्याकल्पितमित्युक्तेऽर्थे प्रमाणगवेषणायां विशिष्टमनुमानमुपन्यस्यतीत्यर्थः।

तदेव प्रश्नपूर्वकं प्रकटयन् प्रथमार्धाक्षराणि व्याचष्टे –

कथमित्यादिना ।

विमतं मनोमात्रं तद्भावनियतभावत्वात्।

यथा मृद्भावनियतभावो मृन्मात्रो घटादिरित्यनुमानमारचयति –

द्वैतमिति ।

उक्तमेव व्यतिरेकं स्फोरयन् द्वितीयार्धं विभजते –

मनसो हीति ।

सामाधिस्वापयोर्द्वैतस्यानुपलम्भेऽपि नासत्त्वमित्याशङ्क्य “मानाधीना मेयसिद्धिः”(चमत्कारचन्द्रिका ५।२९) इत्यभिप्रेत्याऽऽह –

इत्यभावादिति ॥३१॥