माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
आत्मसत्यानुबोधेन न सङ्कल्पयते यदा ।
अमनस्तां तदा याति ग्राह्याभावे तदग्रहम् ॥ ३२ ॥
कथं पुनरयममनीभाव इत्युच्यते — आत्मैव सत्यमात्मसत्यम् , मृत्तिकावत् , ‘वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’ (छा. उ. ६ । १ । ४) इति श्रुतेः । तस्य शास्त्राचार्योपदेशमन्ववबोध आत्मसत्यानुबोधः । तेन सङ्कल्प्याभावात्तन्न सङ्कल्पयते दाह्याभावे ज्वलनमिवाग्नेः यदा यस्मिन्काले, तदा तस्मिन्काले अमनस्ताम् अमनोभावं याति ; ग्राह्याभावे तत् मनः अग्रहं ग्रहणविकल्पनावर्जितमित्यर्थः ॥

मनसो यदमनस्त्वमुक्तं तदुपपादयति –

आत्मेति ।

समाधिस्वापयोरननुभवेऽपि मनसः स्वरूपेण नित्यत्वान्नामनस्त्वमित्याक्षिपति –

कथमिति ।

सङ्कल्पो हि मनसो व्यावहारिकं रूपम्। सङ्कल्पश्च सङ्कल्प्यापेक्षत्वात् तदभावे न भवति। सर्वमात्मैवेत्यवगमे च सङ्कल्प्याभावान्मनसो मनस्त्वं न वर्तते।

तथाऽपि स्फुरति चेदात्मैवेति न विवेकिदृष्ट्या मनो नामास्तीति श्लोकाक्षरैरुत्तरमाह –

उच्यत इति ।

तस्यैव सत्यत्वे दृष्टान्तमाह –

मृत्तिकावदिति ।

तथा घटशरावादिष्वसत्येषु मृत्तिकामात्रमनुस्यूतं सत्यमिष्यते तथैवानात्मस्वसत्येष्वात्ममात्रं सत्यमेष्टव्यम्। तत्सत्यमित्यवधारणादेवकारस्य दृष्टान्तनिविष्टस्य दार्ष्टान्तिकेऽनुषङ्गादित्यर्थः।

उक्ते दृष्टान्ते प्रमाणमाह –

वाचारम्भणमिति ।

अवशिष्टान्यक्षराणि व्याचष्टे –

तस्येत्यादिना ।

तेन तत्त्वज्ञानेनाऽऽत्मातिरिक्तार्थाभावे निश्चिते सङ्कल्पविषयाभावनिर्धारणया सङ्कल्पाभावे दृष्टान्तमाह –

दाह्येति ।

यथाऽग्नेर्दाह्याभावे ज्वलनं न भवति तथा सङ्कल्प्याभावे सङ्कल्पो निरवकाशः स्यादित्यर्थः।

सङ्कल्प्याभावे किं मनसो भवति, तदाह –

यदेति ॥३२॥