माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
अजमनिद्रमस्वप्नमनामकमरूपकम् ।
सकृद्विभातं सर्वज्ञं नोपचारः कथञ्चन ॥ ३६ ॥
जन्मनिमित्ताभावात्सबाह्याभ्यन्तरम् अजम् ; अविद्यानिमित्तं हि जन्म रज्जुसर्पवदित्यवोचाम । सा चाविद्या आत्मसत्यानुबोधेन निरुद्धा यतः, अतः अजम् , अत एव अनिद्रम् अविद्यालक्षणानादिर्मायानिद्रास्वापात्प्रबुद्धम् अद्वयस्वरूपेणात्मना ; अतः अस्वप्नम् । अप्रबोधकृते ह्यस्य नामरूपे ; प्रबोधाच्च ते रज्जुसर्पवद्विनष्टे । न नाम्नाभिधीयते ब्रह्म, रूप्यते वा न केनचित्प्रकारेण इति अनामकम् अरूपकं च तत् , ‘यतो वाचो निवर्तन्ते’ (तै. उ. २ । ४ । १) इत्यादिश्रुतेः । किञ्च, सकृद्विभातं सदैव विभातं सदा भारूपम् , अग्रहणान्यथाग्रहणाविर्भावतिरोभाववर्जितत्वात् । ग्रहणाग्रहणे हि रात्र्यहनी ; तमश्चाविद्यालक्षणं सदा अप्रभातत्वे कारणम् ; तदभावान्नित्यचैतन्यभारूपत्वाच्च युक्तं सकृद्विभातमिति । अत एव सर्वं च तत् ज्ञप्तिस्वरूपं चेति सर्वज्ञम् । नेह ब्रह्मण्येवंविधे उपचरणमुपचारः कर्तव्यः, यथा अन्येषामात्मस्वरूपव्यतिरेकेण समाधानाद्युपचारः । नित्यशुद्धबुद्धमुक्तस्वभावत्वाद्ब्रह्मणः कथञ्चन न कथञ्चिदपि कर्तव्यसम्भवः अविद्यानाशे इत्यर्थः ॥

प्रकृतमेव ब्रह्म प्रकारान्तरेण निरूपयति –

अजमित्यादिना ।

न च तस्मिन्निरुपाधिके ब्रह्मणि ज्ञाते कर्तव्यशेषः सम्भवतीत्याह –

नेति ।

अजत्वमुपपादयति –

जन्मेति ।

किं तज्जन्मनिमित्तं यदभावादजत्वमुपपाद्यते, तदाह –

अविद्येति ।

कुतस्तर्हि तन्निवृत्त्याऽजत्वसिद्धिस्तत्राऽऽह –

सा चेति ।

निमित्तनिवृत्त्याऽजत्वसिद्धेर्युक्तमनिद्रत्वं निद्राशब्देनाविद्याभिलापादित्याह –

अत एवेति ।

विशेषणान्तरं साधयति –

अविद्यालक्षणेति ।

उत्तरविशेषणद्वयं विवृणोति –

अप्रबोधेति ।

ब्रह्मणो नामरूपवत्त्वाभावे प्रमाणमाह –

यत इति ।

विशेषणान्तरमाह –

किं चेति ।

सदा भारूपत्वे हेतुमाह –

अग्रहणेति ।

जीवे ह्युपाधिस्थेऽहंरूपग्रहणानुदये तिरोभावः, कर्ताऽहमित्यन्यथाग्रहणोदये चाऽऽविर्भावो भवति तदभावाद्भास्वरूपमेव सदा ब्रह्मेत्यर्थः।

श्रुत्याचार्योपदेशात्पूर्वं ब्रह्मण्यग्रहणं तदुपदेशादूर्ध्वं तद्ग्रहणमिति प्रसिद्धे ब्रह्मण्यपि ग्रहणाग्रहणे स्यातामित्याशङ्क्याऽऽह –

ग्रहणेति ।

यथा सवित्रपेक्षया रात्र्यहनी न स्तः, किन्तूदयास्तमयकल्पनया कल्प्येते; तथा ब्रह्मस्वभावालोचनया ग्रहणाग्रहणे न विद्येते, किं तूपाधिद्वारा कल्प्येते। तेन ब्रह्मणः सदा भारूपत्वमविरुद्धमित्यर्थः।

इतश्च निरुपाधिकं ब्रह्म सदाविभातमेषितव्यमित्याह –

तमश्चेति ।

अप्रभातत्व इति च्छेदः। तदभावो ब्रह्मदृष्ट्या तमःसम्बन्धाभावः।

उक्तमेव हेतूकृत्य विशेषणान्तरं विशदयति –

अत एवेति ।

विदुषो निरुद्धमनसो ब्रह्मस्वरूपावस्थानमुक्तम्।

ये तु विदुषोऽपि समाध्यादि कर्तव्यमाचक्षते तान्प्रत्याह –

नेहेति ।

एवं विधत्वं निरुपाधिकत्वमुपचारः समाध्यादिः।

निरुपाधिके ब्रह्मणि विदुषो न कर्तव्यशेषोऽस्तीत्येतमर्थं वैधर्म्योदाहरणेन साधयति –

यथेत्यादिना ।

अन्येषामनात्मविदामिति यावत्। अविद्यादशायामेव सर्वो व्यवहारो विद्यादशायां चाविद्याया असत्त्वान्न कोऽपि व्यवहारः। बाधितानुवृत्त्या तु व्यवहाराभाससिद्धिरित्यर्थः॥३६॥