माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
सर्वाभिलापविगतः सर्वचिन्तासमुत्थितः ।
सुप्रशान्तः सकृज्ज्योतिः समाधिरचलोऽभयः ॥ ३७ ॥
अनामकत्वाद्युक्तार्थसिद्धये हेतुमाह — अभिलप्यते अनेनेति अभिलापः वाक्करणं सर्वप्रकारस्याभिधानस्य, तस्माद्विगतः ; वागत्रोपलक्षणार्था, सर्वबाह्यकरणवर्जित इत्येतत् । तथा, सर्वचिन्तासमुत्थितः, चिन्त्यते अनयेति चिन्ता बुद्धिः, तस्याः समुत्थितः, अन्तःकरणविवर्जित इत्यर्थः, ‘अप्राणो ह्यमनाः शुभ्रः अक्षरात्परतः परः’ (मु. उ. २ । १ । २) इत्यादिश्रुतेः । यस्मात्सर्वविषयवर्जितः, अतः सुप्रशान्तः । सकृज्ज्योतिः सदैव ज्योतिः आत्मचैतन्यस्वरूपेण । समाधिः समाधिनिमित्तप्रज्ञावगम्यत्वात् ; समाधीयते अस्मिन्निति वा समाधिः । अचलः अविक्रियः । अत एव अभयः विक्रियाभावात् ॥

विद्वानेव ब्रह्मेत्यङ्गीकृत्य प्रकृतं ब्रह्म पुल्लिङ्गत्वेन निर्दिशति –

सर्वेति ।

श्लोकस्य तात्पर्यमाह –

अनामेति ।

अत्रेति प्रकृतपदोपादाने।

तर्हि सर्वकरणवर्जितत्वस्यात्रैव सिद्धत्वादुत्तरविशेषणमनर्थकमित्याशङ्क्याऽऽह –

सर्वबाह्येति ।

बाह्यकरणसम्बन्धराहित्यवदन्तःकरणसम्बन्धराहित्यं दर्शयति –

तथेति ।

उभयविधकरणसम्बन्धवैधुर्येणाऽऽत्मनः शुद्धत्वे प्रमाणामाह –

अप्राण इति ।

कारणसम्बन्धराहित्यमाह –

अक्षरादिति ।

तस्य परत्वं कार्यापेक्षया द्रष्टव्यम्।

उक्तं हेतूकृत्य विशेषणान्तरं विशदयति –

यस्मादिति ।

अस्मिन् परस्मिन्नात्मनि समाधीयते निक्षिप्यते जीवस्तदुपाधिश्चेति समाधिः परमात्मा। समाधिनिमित्तया प्रज्ञया तस्यावगम्यत्वाद्वा समाधित्वमवगन्तव्यम्।

अत एवेत्युक्तं स्फुटयति –

विक्रियेति ॥३७॥