माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
ग्रहो न तत्र नोत्सर्गश्चिन्ता यत्र न विद्यते ।
आत्मसंस्थं तदा ज्ञानमजाति समतां गतम् ॥ ३८ ॥
यस्माद्ब्रह्मैव ‘समाधिरचलोऽभयः’ इत्युक्तम् , अतः न तत्र तस्मिन्ब्रह्मणि ग्रहः ग्रहणमुपादानम् , न उत्सर्गः उत्सर्जनं हानं वा विद्यते । यत्र हि विक्रिया तद्विषयत्वं वा, तत्र हानोपादाने स्याताम् ; न तद्द्वयमिह ब्रह्मणि सम्भवति, विकारहेतोरन्यस्याभावान्निरवयवत्वाच्च ; अतो न तत्र हानोपादाने सम्भवतः । चिन्ता यत्र न विद्यते, सर्वप्रकारैव चिन्ता न सम्भवति यत्र अमनस्त्वात् , कुतस्तत्र हानोपादाने इत्यर्थः । यदैव आत्मसत्यानुबोधो जातः, तदैव आत्मसंस्थं विषयाभावादग्न्युष्णवदात्मन्येव स्थितं ज्ञानम् , अजाति जातिवर्जितम् , समतां गतम् परं साम्यमापन्नं भवति । यदादौ प्रतिज्ञातम् ‘अतो वक्ष्याम्यकार्पण्यमजाति समतां गतम्’ (मा. का. ३ । २) इति, इदं तदुपपत्तितः शास्त्रतश्चोक्तमुपसंह्रियते — अजाति समतां गतमिति । एतस्मादात्मसत्यानुबोधात्कार्पण्यविषयमन्यत् , ‘यो वा एतदक्षरं गार्ग्यविदित्वास्माल्लोकात्प्रैति स कृपणः’ (बृ. उ. ३ । ८ । १०) इति श्रुतेः । प्राप्यैतत्सर्वः कृतकृत्यो ब्राह्मणो भवतीत्यभिप्रायः ॥

प्रकृते ब्रह्मण्यविक्रिये विधिनिषेधाधीनयोर्वैदिकयोर्वा लौकिकयोर्वा हानोपादानयोरनवकाशत्वमित्याह –

ग्रहो नेति ।

मनोविषयत्वाभावाच्च ब्रह्मणि तयोरकाशो नास्तीत्याह –

चिन्तेति ।

यथोक्ते ब्रह्मणि ज्ञाते फलितमाह –

आत्मेति ।

प्रकरणादौ प्रतिज्ञातमुपसंहरति –

अजातीति ।

किमिति लौकिकौ वैदिकौ वा ग्रहोत्सर्गौ ब्रह्मणि न भवतस्तत्राऽऽह –

यस्मादिति ।

उक्तमेवार्थमुपपादयति –

यत्र हीति ।

ब्रह्मणि विक्रियाऽभावे हेतुमाह –

विकारेति ।

तस्य विक्रियाविषयत्वाभावेऽपि हेतुं कथयति –

निरवयवत्वाच्चेति ।

विक्रियायास्तद्विषयत्वस्य चाभावे फलितमाह –

अत इति ।

द्वितीयं पादमवतार्य व्याचष्टे –

चिन्तेत्यादिना ।

तृतीयं पादं विभजते –

यदैवेति ।

चतुर्थपादं व्याकरोति –

अजातीति ।

नन्विदं प्रकरणादावुक्तं किमर्थं पुनरिहोच्यते, तत्राऽह –

यदादाविति ।

ननु ‘ग्रहो न तत्र’ इत्यादौ पूर्वत्र तत्त्वज्ञानमुक्तं न त्वकार्पण्यम्, तत्कथमकार्पण्यं वक्ष्यामीत्युपक्रान्तस्यात्रोपसंहारः सम्भवतीत्याशङ्क्य तत्त्वज्ञानस्यैवाकार्पण्यरूपत्वादुक्तोपसंहारसिद्धिरित्याह –

एतस्मादिति ।

तत्त्वज्ञानातिरिक्तं ज्ञानं कार्पण्यविषयमित्यत्र लिङ्गं दर्शयति –

यो वा इति ।

तत्त्वज्ञानराहित्ये कृपणत्वमुक्त्वा तद्वत्त्वे फलितमाह –

प्राप्येति ॥३८॥