परमार्थब्रह्मस्वरूपावस्थानफलकं चेदद्वैतदर्शनं किमिति तर्हि सर्वैरेव नाऽऽद्रियते, तत्राऽऽह –
अस्पर्शेति ।
परमार्थतत्त्वं कर्मनिष्ठानां बहिर्मुखाणां दुर्दर्शनमित्यत्र हेतुमाह –
योगिन इति ।
यदुक्तं तत्त्वज्ञानं स्वरूपावस्थानफलकमिति, तदङ्गीकरोति –
यद्यपीति ।
परमार्थतत्त्वं ब्रह्मेदं प्रत्यग्भूतम् इत्थं प्रागुक्तपरिपाट्या कूटस्थसच्चिदानन्दात्मकं यद्यपि तत्त्वज्ञानात् प्राप्यते तथाऽपि मूढास्तन्निष्ठा न भवन्तीति शेषः।
यस्य तत्त्वानुभवस्य स्वरूपावस्थानं फलमुक्तं तमिदानीं विशिनष्टि –
अस्पर्शेति ।
तत्र वर्णाश्रमादिधर्मेण पापादिमलेन च स्पर्शो न भवत्यस्मादित्यद्वैतानुभावोऽस्पर्शः ।
स एव योगो जीवस्य ब्रह्मभावेन योजनादित्याह –
सर्वेति ।
नामेति निपातस्य पर्यायं गृहीत्वा विवक्षितमर्थमाह –
नामेत्यादिना ।
उपनिषत्सु “न लिप्यते कर्मणा पापकेन”(बृ. उ. ४ । ४ । २३) इत्याद्यासु। दुःखं श्रवणमननादिलक्षणम्।
योगिशब्दस्य ज्ञानिविषयत्वं व्यावर्तयति –
वेदान्तेति ।
कैस्तर्हि यथोक्तस्यानुभवस्य लभ्यत्वमित्याशङ्क्याऽऽह –
आत्मेति ।
उत्तरार्धं विभजते –
योगिन इति ।
कर्मिणो हि श्रोत्रिया ब्रह्मण्याद्यस्माकं नङ्क्षतीति मत्वा तत्त्वज्ञानाद् विभ्यतीत्यर्थः।
अभयनिमित्तमेव तत्त्वज्ञानं मिथ्याज्ञानवशाद्भयनिमित्तम् पश्यन्तीत्याह –
सर्वेति ।
भयदर्शित्वं विशदयति –
अभयेति ॥३९॥