माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
मनसो निग्रहायत्तमभयं सर्वयोगिणाम् ।
दुःखक्षयः प्रबोधश्चाप्यक्षया शान्तिरेव च ॥ ४० ॥
येषां पुनर्ब्रह्मस्वरूपव्यतिरेकेण रज्जुसर्पवत्कल्पितमेव मन इन्द्रियादि च न परमार्थतो विद्यते, तेषां ब्रह्मस्वरूपाणामभयं मोक्षाख्या च अक्षया शान्तिः स्वभावत एव सिद्धा, नान्यायत्ता, ‘नोपचारः कथञ्चन’ (मा. का. ३ । ३६) इत्युक्तेः ; ये त्वतोऽन्ये योगिनो मार्गगा हीनमध्यमदृष्टयो मनोऽन्यदात्मव्यतिरिक्तमात्मसम्बन्धि पश्यन्ति, तेषामात्मसत्यानुबोधरहितानां मनसो निग्रहायत्तमभयं सर्वेषां योगिनाम् । किञ्च, दुःखक्षयोऽपि । न ह्यात्मसम्बन्धिनि मनसि प्रचलिते दुःखक्षयोऽस्त्यविवेकिनाम् । किञ्च, आत्मप्रबोधोऽपि मनोनिग्रहायत्त एव । तथा, अक्षयापि मोक्षाख्या शान्तिस्तेषां मनोनिग्रहायत्तैव ॥

उत्तमदृष्टीनामद्वैतदर्शनमद्वैतदृष्टिफलं च मनोनिरोधमुक्त्वा मन्ददृष्टीनां मनोनिरोधाधिनमात्मदर्शनमुपन्यस्यति –

मनस इति ।

अभयमित्यशेषभयनिवृत्तिसाधनमात्मदर्शनमुच्यते। सर्वयोगिनां सर्वेषां योगिनां कर्मानुष्ठाननिष्ठानां बुद्धिशुद्धिमतामित्यर्थः।

मनोनिरोधाधीनं प्रगुक्तमनूद्य तत्फलं कैवल्यं कथयति –

दुःखेति ।

श्लोकस्य विषयं परिशिनष्टि–

येषामिति ।

अभयं भयराहित्यमसंत्रासात्मकमित्यर्थः। उक्तलक्षणा – शान्तिर्निरतिशयानन्दाभिव्यक्तिः, स्वभावतो विद्यास्वरूपसामर्थ्यादित्यर्थः।

विदुषां जीवन्मुक्तानां मुक्तेः सिद्धत्वान्न साधनापेक्षेत्याह –

नान्यायत्तेति ।

तत्र वाक्योपक्रममनुकूलयति –

नेत्यादिना ।

उत्तमेभ्यो ज्ञानवद्भ्योऽधिकारिभ्यो व्यतिरिक्तानधिकारिणोऽवतारयति –

ये त्विति ।

योगिनः सुकृतानुष्ठायिनस्तदनुष्ठानादेव सन्मार्गगामिनस्तेषामपि तत्त्वज्ञानं कथञ्चिदुपजातम् चेदलं मनोनिग्रहेणेत्याशङ्क्याऽऽह –

तेषामिति ।

अभयं तदेव तत्त्वज्ञानम्।

दुःखनिवृत्तिरपि मनोनिग्रहमपेक्ष्य भवतीत्याह –

किं चेति ।

तदेव व्यतिरेकमुखेण स्फोरयति –

न हीति ।

इतश्च मनो निग्रहीतव्यमित्याह –

किं चेति ।

अभयमित्यत्र सूचितं स्पष्टं विवृणोति –

आत्मेति ।

इतश्च मनोनिग्रहोऽर्थवानित्याह –

तथेति ।

तेषां साधकानां मुमुक्षूणामिति यावत् ॥४०॥