समाधिं कुर्वतस्तत्त्वसाक्षात्कारप्रतिबन्धका लयविक्षेपसुखरागास्तेभ्यो मनसो वक्ष्यमाणोपायेन निग्रहं कुर्यात् । अन्यथा समाधिसाफल्यानुपपत्तेरित्याह –
उपायेनेति ।
प्रागुक्तादुपायादेव मनोनिग्रहपरिग्रहे श्रवणादिविध्यानर्थक्यमिति मन्वानः शङ्कते –
किमिति ।
पूर्वोक्तोपायवतः श्रवणाद्यनुतिष्ठतो मनोनिग्रहद्वारा तत्त्वज्ञानसिद्धिरित्युत्तरमाह –
नेत्युच्यत इति ।
तृतीयपादं व्याचष्टे –
किं चेति ।
लीयते स्थानद्वयमिति शेषः।
चतुर्थपादमाकाङ्क्षाद्वारा विवृणोति –
सुप्रसन्नमित्यादिना ॥४२॥