माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
उपायेन निगृह्णीयाद्विक्षिप्तं कामभोगयोः ।
सुप्रसन्नं लये चैव यथा कामो लयस्तथा ॥ ४२ ॥
किमपरिखिन्नव्यवसायमात्रमेव मनोनिग्रहे उपायः ? नेत्युच्यते ; अपरिखिन्नव्यवसायवान्सन् , वक्ष्यमाणेनोपायेन कामभोगविषयेषु विक्षिप्तं मनो निगृह्णीयात् निरुन्ध्यादात्मन्येवेत्यर्थः । किञ्च, लीयतेऽस्मिन्निति सुषुप्तो लयः ; तस्मिन् लये च सुप्रसन्नम् आयासवर्जितमपीत्येतत् , निगृह्णीयादित्यनुवर्तते । सुप्रसन्नं चेत्कस्मान्निगृह्यत इति, उच्यते ; यस्मात् यथा कामः अनर्थहेतुः, तथा लयोऽपि ; अतः कामविषयस्य मनसो निग्रहवल्लयादपि निरोद्धव्यत्वमित्यर्थः ॥

समाधिं कुर्वतस्तत्त्वसाक्षात्कारप्रतिबन्धका लयविक्षेपसुखरागास्तेभ्यो मनसो वक्ष्यमाणोपायेन निग्रहं कुर्यात् । अन्यथा समाधिसाफल्यानुपपत्तेरित्याह –

उपायेनेति ।

प्रागुक्तादुपायादेव मनोनिग्रहपरिग्रहे श्रवणादिविध्यानर्थक्यमिति मन्वानः शङ्कते –

किमिति ।

पूर्वोक्तोपायवतः श्रवणाद्यनुतिष्ठतो मनोनिग्रहद्वारा तत्त्वज्ञानसिद्धिरित्युत्तरमाह –

नेत्युच्यत इति ।

तृतीयपादं व्याचष्टे –

किं चेति ।

लीयते स्थानद्वयमिति शेषः।

चतुर्थपादमाकाङ्क्षाद्वारा विवृणोति –

सुप्रसन्नमित्यादिना ॥४२॥