माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
दुःखं सर्वमनुस्मृत्य कामभोगान्निवर्तयेत् ।
अजं सर्वमनुस्मृत्य जातं नैव तु पश्यति ॥ ४३ ॥
कः स उपाय इति, उच्यते — सर्वं द्वैतमविद्याविजृम्भितं दुःखमेव इत्यनुस्मृत्य कामभोगात् कामनिमित्तो भोगः इच्छाविषयः तस्मात् विप्रसृतं मनो निवर्तयेत् वैराग्यभावनयेत्यर्थः । अजं ब्रह्म सर्वम् इत्येतच्छास्त्राचार्योपदेशतः अनुस्मृत्य तद्विपरीतं द्वैतजातं नैव तु पश्यति अभावात् ॥

उपायेन निगृह्णीयादित्युक्तम्। तमेवोपायं वैराग्यरूपमुपदिशति –

दुःखमिति ।

ज्ञानाभ्यासाख्यमुपायान्तरमुपन्यस्यति –

अजमिति ।

अक्षरव्याख्यानार्थमाकाङ्क्षां निक्षिपति –

कः स इति ।

तत्र पूर्वार्धम् व्याकरोति –

उच्यत इत्यादिना ।

वैराग्यभावना तत्र तत्र द्वैतविषये दोषानुसन्धानेन वैतृष्ण्याभावना। तया कामभोगान्मनो निरोद्धव्यमित्यर्थः।

द्वितीयार्धं ज्ञानाभ्यासविषयं व्याकरोति –

अजमित्यादिना ॥४३॥