ज्ञानाभ्यासवैराग्याभ्यां लयाद्विक्षेपाच्च व्यावर्तितं मनो रागप्रतिबद्धं श्रवणमनननिधिध्यासनाभ्यासप्रसूतसम्प्रज्ञातसमाधिनाऽसम्प्रज्ञातसमाधिपर्यन्तेन [योजयितुं] ततोऽपि प्रतिबन्धाद् व्यावर्तनीयमित्याह –
लय इति ।
श्लोकाक्षराणि व्याकरोति –
एवमित्यादिना ।
ज्ञानाभ्यासः श्रवणाद्यावृत्तिर्विषयेषु क्षयिष्णुत्वादिदोषदर्शनेन वैतृष्ण्यं वैराग्यम्, लयो निद्रा।
सम्प्रबोधनमेवाभिनयति –
आत्मेति ।
मनसि प्रकृते किमिति चित्तमुच्यते, तत्राऽऽह –
चित्तमिति ।
विक्षिप्तं विप्रसृतं शमयेद् व्यावर्तयेदिति यावत्।
पुनरित्यत्र विवक्षितमर्थमाह –
एवमिति ।
उभयतो व्यावर्तितं नमस्तर्हि निर्विशेषब्रह्मरूपतां गतमित्याशङ्क्याऽऽह –
नापीति ।
अन्तरालावस्थमनसः स्वरूपं तृतीयपादावष्टम्भेन स्पष्टयति –
सकषायमिति ।
रागस्य बीजत्वं पराचीनविषयप्रवृत्तिं प्रति प्रतिपत्तव्यम्।
यथोक्तं मनो ज्ञात्वा किं कर्तव्यमित्यपेक्षायामाह –
ततोऽपीति ।
अन्तरालावस्था पञ्चम्या परामृश्यते । लयावस्थादि दृष्टान्तयितुमपिशब्दः । यत्नतः सम्प्रज्ञातसमाधेरिति यावत्। साम्यमसम्प्रज्ञातसमाधिमित्यर्थः।
चतुर्थपादस्यार्थमाह –
यदा त्विति ।
समाधिद्वयद्वारेण समं निर्विशेषं परिपूर्णं ब्रह्मरूपं प्राप्य मनस्तन्मात्रतया समाप्तं चेदप्राप्तप्रतिषेधः स्यादित्याशङ्क्याऽऽह –
समप्राप्तीति ।
ततो निर्विशेषवस्तुप्राप्त्याभिमुख्यादनन्तरमित्यर्थः।
किं तन्मनसश्चालनं यत्प्रतिषिध्यते, तत्राऽऽह –
विषयेति ॥४४॥