समाधित्सायां यत्सुखमुत्पद्यते तद्विषयाभिलाषादपि मनो निरोद्धव्यमित्याह –
नाऽऽस्वादयेदिति ।
तत्रेति समाध्यवस्थोच्यते।
किं तु तस्यामवस्थायां सुखं यदुपलभ्यते तदज्ञानविजृम्भितं मिथ्यैवेति प्रज्ञया विवेकज्ञानेन निःस्पृहः सन् भावयेदित्याह –
निस्सङ्ग इति ।
किं च यच्चित्तं प्राचीनवैराग्याद्युपायेन निश्चलं प्रत्यगात्मप्रवणं प्रसाधितं तद्यदि स्वभावानुसारेण बहिर्निर्गन्तुमिच्छेत् तदा सम्प्रज्ञातसमाधेरसम्प्रज्ञातसमाधिपर्यन्तात्प्रयत्नात् तदात्मन्येवैकीकृत्य तन्मात्रमापाद्य परिशुद्धपरिपूर्णब्रह्मात्मकः स्वयं तिष्ठेदित्याह –
निश्चरदिति ।
प्रथमपादाक्षराणि योजयति –
समाधित्सत इति ।
तस्य समाध्यवस्थायामिति शेषः।
द्वितीयपादमाकाङ्क्षाद्वारा विवृणोति –
कथमित्यादिना ।
निःस्पृहो यथोक्ते सुखेऽनुरागरहितः सन्नित्यर्थः। विवेकरूपा बुद्धिरागन्तुकस्य रज्जुसर्पवत्कल्पितत्वमित्येवमात्मिका, तया भावयेदिति सम्बन्धः।
भावनाप्रकारमभिनयति –
यदित्यादिना ।
प्रथमार्धस्याक्षरार्थमुक्त्वा तात्पर्यार्थं निगमयति –
ततोऽपीति ।
उत्तरार्धं विभजते –
यदेत्यादिना ।
पूर्वोक्तसमाध्यनुरोधादात्मन्येव निश्चलस्वभावं सच्चित्तं यथोक्तं सुखरागनिमित्तं तदुपायरागनिमित्तं वा निश्चरद्भवतीति सम्बन्धः। तच्च चित्तं बाह्यविषयाभिमुख्यादुक्तोपायेन ज्ञानाभ्यासादिना व्यावर्त्याऽऽत्मन्येव परस्मिन् ब्रह्मणि प्रयत्नतः सम्प्रज्ञातसमाधिवशादेकीकुर्यात्। असम्प्रज्ञातसमाधियुक्तं परिपूर्णं ब्रह्मैवाऽऽपादयेदित्यर्थः।
तदेव स्पष्टयति –
चित्स्वरूपेति ॥४५॥