माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
यदा न लीयते चित्तं न च विक्षिप्यते पुनः ।
अनिङ्गनमनाभासं निष्पन्नं ब्रह्म तत्तदा ॥ ४६ ॥
यथोक्तेनोपायेन निगृहीतं चित्तं यदा सुषुप्ते न लीयते, न च पुनर्विषयेषु विक्षिप्यते ; अनिङ्गनम् अचलं निवातप्रदीपकल्पम् , अनाभासं न केनचित्कल्पितेन विषयभावेनावभासते इति ; यदा एवंलक्षणं चित्तम् , तदा निष्पन्नं ब्रह्म ; ब्रह्मस्वरूपेण निष्पन्नं चित्तं भवतीत्यर्थः ॥ स्वस्थं शान्तं सनिर्वाणमकथ्यं सुखमुत्तमम् ।

कदा पुनरिदं चित्तं ब्रह्ममात्रमापद्यते, तत्राऽऽह –

यदेति ।

त्रिविधप्रतिबन्धविधुरं विषयाकाररहितं यदा चित्तमवतिष्ठते तदा ब्रह्म सम्पन्नं भवतीत्यर्थः।

अक्षराणि व्याचष्टे –

यथोक्तेनेत्यादिना ।

उपायो ज्ञानाभ्यासादिः। निगृहीतं विषयेभ्यो विमुखीकृतं न लीयते, न निद्रापारवश्येन कारणात्मतां गतमित्यर्थः। अचलं रागादिवासनाशून्यमित्यर्थः।

अचलत्वे दृष्टान्तः –

निवातेति ।

किं तु ब्रह्माकारेणेत्येव लक्षणं चित्तं यदा सम्पद्यते तदेति योजना।

निष्पन्नं ब्रह्मेत्युक्तमेव स्फुटयति –

ब्रह्मस्वरूपेणेति ॥४६॥