उक्तानामुपायानां परमार्थसत्यत्वे सत्यद्वैतहानिः। अन्यथा तदप्रमितिरित्याशङ्क्याऽऽह –
न कश्चिदिति ।
तत्र हेतुमाह –
सम्भवोऽस्येति ।
श्लोकाक्षराणि व्याकर्तुं भूमिकां व्याकरोति –
सर्वोऽपीति ।
व्यावहारिकसत्यत्वमेवोपायानां न परमार्थसत्यत्वमित्यङ्गीकृत्य पारमार्थिकसत्यस्य प्रतिपत्त्युपायत्वेनैवोक्तेत्याह –
मृदिति ।
यदुक्तं मनोनिग्रहादीनां परमार्थत्वेऽद्वैतहानिरिति, तत्राऽऽह –
नेत्यादिना ।
तेषामपरमार्थत्वे कथमद्वैतप्रतिपत्तिरित्यपि न, व्यावहारिकसत्यानामपि तत्प्रमितिहेतुत्वस्य प्रतिबिम्बवदुपपत्तेरिति भावः।
उपायानां व्यावहारिकसत्यत्वेनैव पारमार्थिकं सत्यत्वं किं न स्यादिति, तत्राऽऽह –
परमार्थेति ।
तदेव स्पष्टयति –
कर्तेति ।
स्वभावतोऽऽजत्वं हेतूकर्तव्यम्।
तत्रैव हेत्वन्तरमाह –
अत इति ।
हेत्वन्तरमेव स्पष्टयति –
यस्मादिति ।
उत्तरार्धं व्याचष्टे –
पूर्वेष्विति ।
पूर्वेषु ग्रन्थेष्विति शेषः । इतिशब्दोऽद्वैतप्रकरणपरिसमाप्तिं द्योतयति॥४८॥