इदानीं भाष्यकारोपि भष्यपरिसमाप्तौ शास्त्रप्रतिपादितपरदेवतातत्त्वमनुस्मृत्य तन्नमस्काररूपं मङ्गलाचरणमाचरति –
अजमपीति ।
यद्ब्रह्माशेषोपनिषत्प्रसिद्धं सर्वथा परिच्छेदरहितं तदहं प्रत्यग्भूतं नमस्ये [नतोऽस्मि] तद्विषयं प्रह्वीभावं करोमीति सम्बन्धः।
प्रणामप्रयोजनमाह –
प्रणतेति ।
ये हि प्रणता ब्रह्मणि प्रह्वीभूतास्तन्निष्ठास्तिष्ठन्ति तेषां यदविद्यातत्कार्यात्मकं भयं तदाचार्योपदेशजनितबुद्धिवृत्तिफलकारूढं ब्रह्मैव हन्ति। न खलु जडा बुद्धिवृत्तिर्वस्तुसामर्थ्यमन्तरेणाज्ञानं सकार्यपमनेतुमलम्। बुद्धीद्धो बोधो बोधेद्धा वा बुद्धिरुक्तं फलमादधातीत्यर्थः।
तस्यैव ब्रह्मणः सम्प्रति तटस्थलक्षणं विवक्षति –
अजमित्यादिना ।
यद्यपि जन्मादिसर्वविक्रियाशून्यं वस्तुतो ब्रह्मकूटस्थमास्थीयते तथाऽपि तदैश्वर्येण तदीयशक्त्यात्मकेनानिर्वाच्याज्ञानवैभवेन योगादाकाशादिकार्यात्मना जन्मसम्बन्धं प्राप्य जगतो निदानमिति व्यपदेशभाग्भवति। तथा च श्रुतिसूत्रयोर्ब्रह्मणो जगत्कारणत्वं प्रसिद्धमित्यर्थः।
यद्यपि चेदं ब्रह्म कूटस्थतया विभुतया च गतिवर्जितमवतिष्ठते तथाऽपि यथोक्ताज्ञानमाहात्म्यात् कार्यब्रह्मतां प्राप्य गतिमत्तां गन्तव्यतां बादर्यधिकरणन्यायेन प्रतिपद्यते, तदाह –
अगति चेति ।
यद्यपि चेदं ब्रह्म वस्तुतो निरस्तसमस्तनानात्वमेकरसमद्वितीयमुपनिषद्भिरभ्युपगम्यते तथाऽपि जीवो जगदीश्वरश्चेत्येतद् यदनाद्यनिर्वाच्याविद्यावशादनेकमिव प्रतिभातीत्याह –
एकमिति ।
केषां दृष्ट्या पुनरनेकत्वं ब्रह्मणोऽवगम्यते तदाह –
विविधेति ।
विविधाश्च ते विषयधर्माश्च तद्ग्राहितया मुग्धं विपर्यस्तं विवेकविकलमीक्षणं येषां तेषां दृष्ट्या ब्रह्मणोऽनेकत्वधीर्न तु तत्त्वतः, शास्त्रदृष्ट्या तु तस्मिन्नेकत्वमेव प्रामाणिकमित्यर्थः॥१॥