माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
प्रज्ञावैशाखवेधक्षुभितजलनिधेर्वेदनाम्नोऽन्तरस्थं भूतान्यालोक्य मग्नान्यविरतजननग्राहघोरे समुद्रे । कारुण्यादुद्दधारामृतमिदममरैर्दुर्लभं भूतहेतो - र्यस्तं पूज्याभिपूज्यं परमगुरुममुं पादपातैर्नतोऽस्मि ॥ २ ॥

सम्प्रति ग्रन्थप्रणयनप्रयोजनप्रदर्शनपूर्वकं परमगुरूनागमशास्त्रस्य व्याख्यातस्य प्रणेतृत्वेन व्यवस्थितान् प्रणमति –

प्रज्ञेति ।

यो हि कारुण्यादिदं ज्ञानाख्यममृतं भूतहेतोस्तदुपकारार्थमुद्दधार तं परमगुरुं नतोऽस्मीति सम्बन्धः। अमुमिति तस्य पुरोदेशे सन्निहितत्वेनापरोक्षत्वं सूचितम्।

परमगुरुत्वं पूज्यानामपि गुरूणामतिशयेन पूज्यत्वादाचार्यस्य समधिगतमित्याह –

पूज्येति ।

नमस्कारप्रक्रियां प्रकटयति –

पादपातैरिति ।

पादौ तदीयौ पादौ, तयोः स्वकीयस्योत्तमाङ्गस्य पाता भूयो भूयो नम्रीभावास्तैरिति यावत्।

आचार्यो ज्ञानाख्यममृतं कथंभूतमुद्धृतवानित्यपेक्षायामुक्तम् –

अन्तरस्थमिति ।

कस्यान्तरस्थमिति विवक्षायामाह –

वेदेति ।

कथमित्यत्राऽऽह –

प्रज्ञेति ।

मेधासहिता प्रज्ञैव वैशाखो मन्थास्तस्य वेधो वेधनं क्षेपणं तेन क्षुभितो विलोडितो जलनिधिर्वेदनामा तस्यान्तरेऽभ्यन्तरे स्थितमिदममृतमिति यावत्।

उक्तस्य ज्ञानामृतस्य प्रसिद्धादमृतादवान्तरवैषम्यमादर्शयति –

अमरैरिति ।

यद्धि भगवता नारायणेन क्षीरसागरान्तरवस्थितममृतं समुद्धृतं तदेव कथञ्चिदमरा लेभिरे। इदं तु तैरनायासलभ्यं न भवति। ज्ञानसामग्रीसम्पन्नैरेव लभ्यत्वादित्यर्थः।

यदि कारुण्यादिदममृतमाचार्येण वेदोदधेर्भूतोपकारार्थमुद्धृतं कथं तर्हि कारुण्यं तस्य प्रादुरभूदित्याशङ्क्याऽऽह –

भूतानिति ।

योऽयं समुद्रवद् दुरुत्तारः संसारस्तस्मिन्नविरतमनवरतं सन्ततमेव यानि जननानि विग्रहभेदग्रहणानि तान्येव ग्राहा जलचरास्तैर्घोरे क्रूरे भयङ्करे मग्नानि भग्नसङ्कल्पानि परवशानि भूतान्युपलभ्य कारुण्यमाचार्यस्य प्रादुरासीत्। ततश्चेदममृतमुद्धृत्य भूतेभ्यो दत्त्वा तानि रक्षितवानित्यर्थः॥२॥