सम्प्रति ग्रन्थप्रणयनप्रयोजनप्रदर्शनपूर्वकं परमगुरूनागमशास्त्रस्य व्याख्यातस्य प्रणेतृत्वेन व्यवस्थितान् प्रणमति –
प्रज्ञेति ।
यो हि कारुण्यादिदं ज्ञानाख्यममृतं भूतहेतोस्तदुपकारार्थमुद्दधार तं परमगुरुं नतोऽस्मीति सम्बन्धः। अमुमिति तस्य पुरोदेशे सन्निहितत्वेनापरोक्षत्वं सूचितम्।
परमगुरुत्वं पूज्यानामपि गुरूणामतिशयेन पूज्यत्वादाचार्यस्य समधिगतमित्याह –
पूज्येति ।
नमस्कारप्रक्रियां प्रकटयति –
पादपातैरिति ।
पादौ तदीयौ पादौ, तयोः स्वकीयस्योत्तमाङ्गस्य पाता भूयो भूयो नम्रीभावास्तैरिति यावत्।
आचार्यो ज्ञानाख्यममृतं कथंभूतमुद्धृतवानित्यपेक्षायामुक्तम् –
अन्तरस्थमिति ।
कस्यान्तरस्थमिति विवक्षायामाह –
वेदेति ।
कथमित्यत्राऽऽह –
प्रज्ञेति ।
मेधासहिता प्रज्ञैव वैशाखो मन्थास्तस्य वेधो वेधनं क्षेपणं तेन क्षुभितो विलोडितो जलनिधिर्वेदनामा तस्यान्तरेऽभ्यन्तरे स्थितमिदममृतमिति यावत्।
उक्तस्य ज्ञानामृतस्य प्रसिद्धादमृतादवान्तरवैषम्यमादर्शयति –
अमरैरिति ।
यद्धि भगवता नारायणेन क्षीरसागरान्तरवस्थितममृतं समुद्धृतं तदेव कथञ्चिदमरा लेभिरे। इदं तु तैरनायासलभ्यं न भवति। ज्ञानसामग्रीसम्पन्नैरेव लभ्यत्वादित्यर्थः।
यदि कारुण्यादिदममृतमाचार्येण वेदोदधेर्भूतोपकारार्थमुद्धृतं कथं तर्हि कारुण्यं तस्य प्रादुरभूदित्याशङ्क्याऽऽह –
भूतानिति ।
योऽयं समुद्रवद् दुरुत्तारः संसारस्तस्मिन्नविरतमनवरतं सन्ततमेव यानि जननानि विग्रहभेदग्रहणानि तान्येव ग्राहा जलचरास्तैर्घोरे क्रूरे भयङ्करे मग्नानि भग्नसङ्कल्पानि परवशानि भूतान्युपलभ्य कारुण्यमाचार्यस्य प्रादुरासीत्। ततश्चेदममृतमुद्धृत्य भूतेभ्यो दत्त्वा तानि रक्षितवानित्यर्थः॥२॥