माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
ज्ञानेनाकाशकल्पेन धर्मान्यो गगनोपमान् ।
ज्ञेयाभिन्नेन सम्बुद्धस्तं वन्दे द्विपदां वरम् ॥ १ ॥
ओङ्कारनिर्णयद्वारेण आगमतः प्रतिज्ञातस्याद्वैतस्य बाह्यविषयभेदवैतथ्याच्च सिद्धस्य पुनरद्वैते शास्त्रयुक्तिभ्यां साक्षान्निर्धारितस्य एतदुत्तमं सत्यमित्युपसंहारः कृतोऽन्ते । तस्यैतस्यागमार्थस्य अद्वैतदर्शनस्य प्रतिपक्षभूता द्वैतिनो वैनाशिकाश्च । तेषां चान्योन्यविरोधाद्रागद्वेषादिक्लेशास्पदं दर्शनमिति मिथ्यादर्शनत्वं सूचितम् , क्लेशानास्पदत्वात्सम्यग्दर्शनमित्यद्वैतदर्शनस्तुतये । तदिह विस्तरेणान्योन्यविरुद्धतया असम्यग्दर्शनत्वं प्रदर्श्य तत्प्रतिषेधेनाद्वैतदर्शनसिद्धिरुपसंहर्तव्या आवीतन्यायेनेत्यलातशान्तिप्रकरणमारभ्यते । तत्राद्वैतदर्शनसम्प्रदायकर्तुरद्वैतस्वरूपेणैव नमस्कारार्थोऽयमाद्यश्लोकः । आचार्यपूजा हि अभिप्रेतार्थसिद्ध्यर्थेष्यते शास्त्रारम्भे । आकाशेन ईषदसमाप्तमाकाशकल्पमाकाशतुल्यमित्येतत् । तेन आकाशकल्पेन ज्ञानेन । किम् ? धर्मानात्मनः । किंविशिष्टान् ? गगनोपमान् गगनमुपमा येषां ते गगनोपमाः, तानात्मनो धर्मान् । ज्ञानस्यैव पुनर्विशेषणम् — ज्ञेयैर्धर्मैरात्मभिरभिन्नम् अग्न्युष्णवत् सवितृप्रकाशवच्च यत् ज्ञानम् , तेन ज्ञेयाभिन्नेन ज्ञानेन आकाशकल्पेन ज्ञेयात्मस्वरूपाव्यतिरिक्तेन, गगनोपमान्धर्मान्यः सम्बुद्धः सम्बुद्धवान्नित्यमेव ईश्वरो यो नारायणाख्यः, तं वन्दे अभिवादये । द्विपदां वरं द्विपदोपलक्षितानां पुरुषाणां वरं प्रधानम् , पुरुषोत्तममित्यभिप्रायः । उपदेष्टृनमस्कारमुखेन ज्ञानज्ञेयज्ञातृभेदरहितं परमार्थतत्त्वदर्शनमिह प्रकरणे प्रतिपिपादयिषितं प्रतिपक्षप्रतिषेधद्वारेण प्रतिज्ञातं भवति ॥

आद्यन्तमध्यमङ्गला ग्रन्थाः प्रचारिणो भवन्तीत्यभिप्रेत्याऽऽदावोङ्कारोच्चारणवदन्ते परदेवताप्रणामवन्मध्येऽपि परदेवतारूपमुपदेष्टारं प्रणमति –

ज्ञानेनेति ।

पूर्वोत्तरप्रकरणसम्बन्धसिद्ध्यर्थं पूर्वप्रकरणत्रये वृत्तमर्थं क्रमादनुद्रवति –

ओङ्कारेति ।

अद्वैत इत्यद्वैतोपलक्षितं तृतीयं प्रकरणमुच्यते।

चतुर्थं प्रकरणमवतारयितुमुपयुक्तमर्थान्तरमनुवदति –

तस्येति ।

द्वैतिनो भेदवादिनो वैनाशिकव्यतिरिक्ता गृह्यन्ते। वैनाशिका नैरात्म्यवादिनः। रागद्वेषादीत्यादिशब्देनातिरिक्तक्लेशोपादानम्।

पक्षान्तराणां मिथ्यादर्शनत्वसूचनं कुत्रोपयुज्यते, तत्राऽऽह –

क्लेशेति ।

पातनिकामेवं कृत्वा समनन्तरप्रकरणप्रवृत्तिं प्रतिजानीते –

तदिहेति ।

तदसम्यग्दर्शनत्वमिति सम्बन्धः। आवीतन्यायो व्यतिरेकन्यायः। यथा यत्कृतकं तदनित्यमित्यन्वयादनित्यत्वेऽवगतेऽपि यन्नानित्यं न तत्कृतकमिति व्यतिरेकोऽपि व्यभिचारशङ्कानिरासित्वेन व्याप्तिनिश्चयार्थमिष्यते। तथा तर्कतः सम्भावितस्याऽऽगमेनावगतस्यापि प्रतिपक्षभूतवादान्तरापाकरणप्रपञ्चमन्तरेण पाक्षिकासम्यक्त्वशङ्का स्यादद्वैतदर्शनस्येति तत्प्रतिषेधेन तत्सिद्धिरुपसंहर्तव्येत्यलातशान्तिदृष्टान्तोपलक्षितमारभ्यते प्रकरणमित्यर्थः। विशेषेण स्पष्टमितो वीतः, स न भवतीत्यवीतः। अवीत एवाऽवीतः। तेन न्यायेन व्यतिरेकेणेति यावत्।

प्रकरणस्य तात्पर्यमेवं दर्शयित्वा प्रथमश्लोकस्य तात्पर्यमाह –

तत्रेति ।

तत्र चतुर्थप्रकरणं सप्तम्यां परामृश्यते।

किमित्यद्वैतरूपेणाऽऽचार्यो नमस्क्रियते, तत्राऽऽह –

आचार्येति ।

अभिप्रेतार्थः शास्त्रस्याविध्नेन परिसमाप्तिस्तदर्थे विप्रतिपत्त्यादिव्यावृत्तिश्च। आकाशस्य जडत्वाधिक्याज्ज्ञानं स्वप्रकाशमाकाशेनेषदसमाप्तं वक्तव्यम्। विभुत्वादावुपमा द्रष्टव्या। बहुवचनमुपाधिकल्पितभेदाभिप्रायम्।

तेषामपि चिन्मात्रत्वं विवक्षित्वोक्तम् –

ज्ञानस्यैवेति ।

तेनेत्यादि पुनरनुवादेनान्वयमन्वाचष्टे। आचार्यो हि पुरा बदरिकाश्रमे नरनारायणाधिष्ठिते नारायणं भगवन्तमभिप्रेत्य तपो महदतप्यत। ततो भगवानतिप्रसन्नस्तस्मै विद्यां प्रादादिति प्रसिद्धं परमगुरुत्वं परमेश्वरस्येति भावः।

ननु प्रकरणे प्रारभ्यमाणे प्रतिपाद्ये प्रमेये वक्तव्ये किमित्युपदेष्टा नमस्क्रियते तत्राऽऽह –

उपदेष्ट्रिति ॥१॥