माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
अस्पर्शयोगो वै नाम सर्वसत्त्वसुखो हितः ।
अविवादोऽविरुद्धश्च देशितस्तं नमाम्यहम् ॥ २ ॥
अधुना अद्वैतदर्शनयोगस्य नमस्कारः तत्स्तुतये — स्पर्शनं स्पर्शः सम्बन्धो न विद्यते यस्य योगस्य केनचित्कदाचिदपि, सः अस्पर्शयोगः ब्रह्मस्वभाव एव वै नामेति ; ब्रह्मविदामस्पर्शयोग इत्येवं प्रसिद्ध इत्यर्थः । स च सर्वसत्त्वसुखो भवति । कश्चिदत्यन्तसुखसाधनविशिष्टोऽपि दुःखस्वरूपः, यथा तपः । अयं तु न तथा । किं तर्हि ? सर्वसत्त्वानां सुखः । तथा इह भवति कश्चिद्विषयोपभोगः सुखो न हितः ; अयं तु सुखो हितश्च, नित्यमप्रचलितस्वभावत्वात् । किं च अविवादः, विरुद्धं वदनं विवादः पक्षप्रतिपक्षपरिग्रहेण यस्मिन्न विद्यते सः अविवादः । कस्मात् ? यतः अविरुद्धश्च ; य ईदृशो योगः देशितः उपदिष्टः शास्त्रेण, तं नमाम्यहं प्रणमामीत्यर्थः ॥

इदानीमद्वैतदर्शनयोगस्तुतये तन्नमस्कारं प्रस्तौति –

अस्पर्शेति ।

श्लोकस्य तात्पर्यमाह –

अधुनेति ।

तस्य च स्तुतिस्तत्साधनेषु प्रवृत्तावुपयुज्यते।

सम्प्रत्यक्षराणि व्याकुर्वन्नस्पर्शयोगशब्दं व्याकरोति –

स्पर्शनमिति ।

योगस्यान्यसम्बन्धप्रसङ्गाभावात् कथमस्पर्शत्वमित्याशङ्क्याऽऽह –

ब्रह्मेति ।

निपातयोरर्थं कथयति –

वै नामेति ।

सर्वेषां सत्त्वानां देहभृतां सुखयतीति व्युत्पत्त्या सुखहेतुत्वं ब्रह्मस्वभावस्य सुखविशेषणेन दर्शयति –

स चेति ।

सुखहेतावपि ब्रह्मस्वभावे विवक्षितं विशेषं दर्शयति –

भवतीति ।

हितविशेषणस्य तात्पर्यमाह –

तथेह भवतीत्यादिना ।

तस्य हितत्वे हेतुमाह –

नित्यमिति ।

तस्यैव विशेषणान्तरमाह –

किं चेति ।

तत्र हेतुं प्रश्नपूर्वकमाह –

कस्मादिति ।

आत्मप्रकाशत्वाद् ब्रह्मस्वभावस्याविरुद्धत्वम्। न हि कस्याचिदात्मप्रकाशो विरुद्धो भवतीत्यर्थः।

यथोक्तयोगज्ञानमार्गस्य सम्प्रदायागतत्वमाह –

य ईदृश इति ।

तन्नमस्कारव्याजेन तस्य स्तुतिस्तदुपायेषु श्रोतृप्रवृत्त्यर्थमत्र विवक्षितेत्याह –

तं नमामीति ॥२॥